Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, २३ जुलाईमासः (हि.स.)। कबीर-विवेक-परिवारस्य पक्षतः प्रदीयमानं प्रतिष्ठितं प्रो. शुकदेवसिंह-स्मृतिसम्मानं–२०२६ अस्मिन् वर्षे वरिष्ठकवये, साहित्यकाराय, सम्पादकाय सुभाष-रायाय प्रदास्यते। एषः निर्णयः हिन्दीसाहित्यस्य प्रख्यातसाहित्यकारेण प्रो. काशीनाथसिंहेन, कवि-आलोचकेन अशोक-वाजपेयिना तथा कवि-आलोचकेन प्रो. आशीष-त्रिपाठिना युक्तया निर्णायकसमित्या सर्वसम्मत्या कृतः।
कबीर-विवेक-परिवारस्य प्रमुखा डॉ. भगवन्ती-सिंह: गुरुवासरे एतस्य घोषणाम् अकरोत्। सा अवदत् यत् प्राचीन-मध्यकालीन-साहित्यस्य अध्ययनक्षेत्रे उल्लेखनीययोगदानाय प्रदीयमानः अयं सम्मानः सुभाष-रायाय तयोः चर्चितयोः कृत्योः ‘दिगम्बर-विद्रोहिणी अक्क-महादेवी’ तथा ‘आत्मसम्भवा आण्डाल:’ इत्येतयोः कृते प्रदास्यते। भक्तिसाहित्ये, कवयित्रीणां जीवने, काव्ये, वैचारिकप्रतिरोधे च केन्द्रिते एते ग्रन्थौ रज़ा-न्यासस्य अध्येतावृत्त्याः अन्तर्गतौ लिखितौ, सेतु-प्रकाशनेन, नवदेहल्यां प्रकाशितौ च स्तः।
निर्णायकमण्डलेन स्वसंस्तुतौ उक्तं यत् आण्डालः अक्क-महादेवी च भारतीय-भक्तिकाव्यपरम्परायां लोकतान्त्रिक-चेतनायाः महत्त्वपूर्णे प्रतिनिधिकवयित्र्यौ स्तः। सुभाष-रायः स्वाभ्यां ग्रन्थाभ्यां तयोः आन्तरिकजीवनं, आध्यात्मिकानुभवान्, सामाजिक-सांस्कृतिकप्रतिरोधं च गम्भीरसंवेदनशीलतया शोधपरकदृष्ट्या च निरूपितवान्।
सम्मानसमारोहस्य संयोजकः काशी-हिन्दू-विश्वविद्यालयस्य हिन्दी-विभागस्य प्राध्यापकः प्रो. मनोजकुमार-सिंहः अवदत् यत् सन्तसाहित्यस्य विख्यातस्य अध्येतुः प्रो. शुकदेवसिंहस्य स्मृतौ प्रतिवर्षं प्रदीयमानं एतत् सम्मानम् अस्मिन् वर्षे अपि तस्य जयन्त्यां २४ जुलाईमासे वाराणस्यां आयोजिते समारोहे प्रदास्यते। सः अवदत् यत् गाजीपुरे जातः प्रो. शुकदेवसिंहः काशी-हिन्दू-विश्वविद्यालये हिन्दीविभागस्य प्राध्यापकः आसीत् तथा सन्तसाहित्यस्य क्षेत्रे तस्य योगदानम् अत्यन्तम् महत्त्वपूर्णम् आसीत्। तेन सन्तसाहित्यविषये अनेके शोधपरकग्रन्था: लिखिता: सम्पादिता: च, ये अद्यापि शोधार्थिनां अध्येतॄणां च कृते महत्त्वपूर्णा: सन्दर्भग्रन्था: मन्यन्ते।
अस्मिन् वर्षे सम्मानितः सुभाष-रायः उत्तरप्रदेशस्य मऊ-जनपदस्य बड़ाग्रामे जातः। ग्रामे एव प्रारम्भिकशिक्षां प्राप्य सः आगरा-विश्वविद्यालयसम्बद्धात् के.एम.आई. संस्थानात् हिन्दीभाषा-साहित्ययोः स्नातकोत्तरपरीक्षां प्रथमश्रेण्यां उत्तीर्णवान्। अनन्तरं सः विधिशिक्षाम् अपि प्राप्तवान् तथा सन्तकवेः दादूदयालस्य रचनासंसारे शोधकार्यं सम्पन्नवान्।
सुभाष-रायः दीर्घकालं पत्रकारिताक्षेत्रे कार्यरतः आसीत्। तेन देशस्य अनेकासु प्रतिष्ठितासु दैनिकसमाचारपत्रिकासु शीर्षसम्पादकीयदायित्वानि निर्वुढानि। सम्प्रति सः लखनऊनगरतः प्रकाशितस्य एकस्य समाचारपत्रस्य प्रधानसम्पादकः अस्ति। साहित्यक्षेत्रे तस्य ‘सलीब पर सच’, ‘मूर्तियों के जंगल में’ इति काव्यसङ्ग्रहद्वयं, ‘जाग मछन्दर जाग’ इति निबन्धसङ्ग्रहः तथा संस्मरण-आलोचनात्मकलेखसङ्ग्रहः ‘अन्धेरे के पार’ पूर्वमेव प्रकाशिताः सन्ति।
Hindusthan Samachar / Divya Ranjan