वाराणसी : सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य दीक्षांत समारोहः 29 जुलाई दिनांके, सज्जास्तीव्राः
—कुलपतिःसज्जासु स्थापयति दृष्टिं,परिसरे रंगरोगन इत्येतदपि वाराणसी, 23 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालये चतुश्चत्वारिंशतितमस्य दीक्षान्तसमारोहस्य सिद्धताः युद्धस्तरेण प्रचलन्ति। परिसरे स्वच्छताक
सम्पूर्णानन्द संस्कृत विश्वविद्यालय


—कुलपतिःसज्जासु स्थापयति दृष्टिं,परिसरे रंगरोगन इत्येतदपि

वाराणसी, 23 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थिते सम्पूर्णानन्दसंस्कृतविश्वविद्यालये चतुश्चत्वारिंशतितमस्य दीक्षान्तसमारोहस्य सिद्धताः युद्धस्तरेण प्रचलन्ति। परिसरे स्वच्छताकार्येण सह वर्णलेपनकार्यं अपि प्रवर्तते। विश्वविद्यालयस्य कुलपतिः प्रो बिहारीलालशर्मा सिद्धतानां निरीक्षणं कुर्वन् समये समये तासां परीक्षणमपि करोति।

कुलपतिः प्रो बिहारीलालशर्मा अवदत् यत् चतुश्चत्वारिंशत्तमः दीक्षान्तसमारोहः जुलैमासस्य एकोनत्रिंशत्तमे दिने पूर्वाह्णे नववादनात् आरभ्य विश्वविद्यालयस्य ऐतिहासिकमुख्यभवने आयोजिष्यते। समारोहस्य अध्यक्षतां विश्वविद्यालयस्य कुलाधिपतिः उत्तरप्रदेशस्य राज्यपालः आनन्दीबेनपटेल महोदया करिष्यति। समारोहस्य मुख्यातिथिः देशस्य सुप्रसिद्धः वैज्ञानिकः भारतीयप्रौद्योगिकीसंस्थानस्य कानपुरस्य प्रो आशुतोषशर्मा भविष्यति। विशिष्टातिथिरूपेण प्रदेशसरकारस्य उच्चशिक्षामन्त्री योगेन्द्रोपाध्यायः तथा उच्चशिक्षाराज्यमन्त्री रजनीतिवारी उपस्थितौ भविष्यतः।

कुलपतिना उक्तं यत् मुख्यभवने पण्डालनिर्माणम्, मुख्यमञ्चः, उपवेशनव्यवस्था, विद्युत्सुव्यवस्था, ध्वनिव्यवस्था, सुरक्षा, स्वच्छता, पेयजलव्यवस्था, वाहनस्थापनव्यवस्था, अतिथिसत्कारव्यवस्था इत्यादीनां सर्वासां व्यवस्थापनानां सिद्धताः परीक्षिताः। सर्वे सम्बन्धिताः अधिकारिणः निर्देशिताः यत् सर्वाणि कार्याणि निर्धारितसमयसीमायाः अन्तर्गतं उत्कृष्टगुणवत्तया समन्वयेन च सम्पादनीयानि, येन समारोहः विश्वविद्यालयस्य गरिमानुरूपः परम्परानुरूपश्च भव्यः सुव्यवस्थितः ऐतिहासिकरीत्या च सम्पन्नः भवेत्। विश्वविद्यालयप्रशासनं समारोहस्य प्रत्येकसिद्धतायाः निरन्तरं निरीक्षणं कुर्वत् अस्ति।

Hindusthan Samachar / Dheeraj Maithani