सूचनाप्रसारे कृत्रिमबुद्धेः सामर्थ्यस्य अवगमनम् अत्यावश्यकम् - अपूर्वदेवगनः
मण्डीनगरम्, २३ जुलाईमासः (हि.स.)। सामाजिकमाध्यमानां मिथ्यासमाचाराणां च अस्मिन् युगे पत्रकारिताक्षेत्रे शीघ्रतायाः ‘ब्रेकिङ्ग्’-समाचाराणां च स्पर्धया यथार्थसूचनाप्रसारणे प्रतिकूलः प्रभावः भवति। पत्रसूचना-कार्यालयेन शिमलातः मण्डीनगरे एकदिवसीया जनपदस्
पीआईबी द्वारा आयोजित कार्यशाला को संबोधित करते हुए उपायुक्त अपूर्व देवगन।


मण्डीनगरम्, २३ जुलाईमासः (हि.स.)। सामाजिकमाध्यमानां मिथ्यासमाचाराणां च अस्मिन् युगे पत्रकारिताक्षेत्रे शीघ्रतायाः ‘ब्रेकिङ्ग्’-समाचाराणां च स्पर्धया यथार्थसूचनाप्रसारणे प्रतिकूलः प्रभावः भवति। पत्रसूचना-कार्यालयेन शिमलातः मण्डीनगरे एकदिवसीया जनपदस्तरीया माध्यम-कार्यशाला ‘वार्तालापः’ आयोजिता। अस्यां कार्यशालायाम् मण्डी-जनपदस्य उपायुक्तः अपूर्वदेवगनः मुख्यातिथित्वेन उपस्थितः आसीत्। मण्डी-जनपदस्य आरक्षक-अधीक्षकः विनोद-कुमारः विशिष्टातिथिरूपेण सह-भागित्वम् अकरोत्। कार्यशालायाः मुख्यविषयः सूचनाप्रसारे सुधारः आसीत्। तस्याः अन्तर्गतं जनकल्याणकारी-योजनानां, यथार्थसूचनानां त्वरितप्रसारस्य, मिथ्या-समाचाराणां समस्यानां तथा क्षेत्रीयविकाससम्बद्धानां विविधविषयाणां विषये विस्तृता चर्चा अभवत्।

अस्मिन्नवसरे अपूर्वदेवगनः अवदत् यत् वर्तमानकाले पारदर्शिप्रशासनस्य तथा जनकल्याणकारी-योजनानां लाभं समाजस्य अन्तिमजनपर्यन्तं प्रापयितुं सम्यक् सूचनाप्रसारः अत्यन्तम् आवश्यकः अस्ति। सः उक्तवान् यत् पत्रकारिता शासनस्य जनतायाश्च मध्ये दृढसेतुरूपेण कार्यं करोति। पीआईबी-संस्थया आयोजिताया: अस्याः कार्यशालायाः प्रशंसां कुर्वन् सः अवदत् यत् एतादृशैः आयोजनैः प्रशासनिकाधिकारिणां माध्यमप्रतिनिधीनां च मध्ये संवादः समन्वयश्च अधिकं सुदृढः भवति।

सः पुनः अवदत् यत् लोकसेवापरीक्षाणां सिद्ध्यर्थं प्रयतमानानां युवाभ्यर्थिनां कृते पीआईबी अत्यन्तं महत्त्वपूर्णः विश्वसनीयश्च स्रोतः अस्ति।

ततः मण्डी-जनपदस्य आरक्षक-अधीक्षकः विनोदकुमारः समाजे वर्धमानस्य मादकद्रव्यसेवनस्य दुष्प्रभावेषु चिन्तां व्यक्तवान् तथा आरक्षक-विभागेन सञ्चाल्यमानस्य नशामुक्ति-अभियानस्य रूपरेखां प्रस्तुतवान्। सः युवभ्यः सम्यग्दिशानिर्देशने समाजस्य च मादकद्रव्य-मुक्तीकरणे माध्यमस्य सकारात्मकभूमिकां रेखाङ्कितवान्। एतदतिरिक्तं जनपदे विधिव्यवस्थायाः संरक्षणार्थं सञ्चाल्यमानानां विविधयोजनानामपि विवरणं प्रदत्तवान्।

कार्यशालायाः प्रारम्भः पीआईबी-शिमलायाः सहायकनिदेशकस्य सञ्जीव-कुमारशर्मणः स्वागतसम्बोधनेन अभवत्। तेन ‘वार्तालाप’-कार्यक्रमस्य आयोजनस्य प्रमुखोद्देश्यानां विषये प्रकाशः पातितः। अस्मिन् कार्यक्रमे मण्डी-जनपदस्य डीपीओ अजयबद्रेलः महिलासशक्तीकरण-विषये, उद्यानिकी-विभागस्य विषय-विशेषज्ञा सुश्री पूजागौतम: उद्यानिकी-योजनानां नवाचाराणां च विषये, जनपद-आपदा-प्रबन्धन-प्राधिकरणस्य आपत्कालीन-परिचालन-केन्द्रस्य प्रभारी प्रवीणभारद्वाजः आपदा-प्रबन्धनस्य प्रयासानां विषये, तथा पर्वतीय-लघुचित्र-कलायाः कलाकारः राजेशकुमारः मण्डी-कलम-नाम्नः सांस्कृतिक-परम्परायाः इतिहासं, तस्याः सूक्ष्मविशेषान् तथा लुप्यमानायाः अस्याः कलायाः संरक्षणार्थं क्रियमाणान् प्रयत्नान् विस्तरेण अवगतवान्।

Hindusthan Samachar / Divya Ranjan