Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २३ जुलाईमासः (हि.स.)। राजस्थानस्य आरक्षक-महानिदेशकस्य राजीवकुमारशर्मणः निर्देशनाधीने सञ्चाल्यमाने ‘महिला-सुरक्षा-सङ्कल्प’-अभियाने अन्तर्गतं राजस्थान-आरक्षकैः प्रदेशव्यापिनः ७,८३४ एकाकिनीनां वृद्धमहिलानां वृद्धदम्पतीनां च गृहेषु सम्प्राप्य तैः सह आत्मीयः संवादः कृतः। आरक्षकाधिकारिभिः तेषां कुशलं पृष्टम्, समस्याः श्रुताः तथा सर्वासु परिस्थितिषु आरक्षक-साहाय्यस्य आश्वासनं दत्तम्।
महानिदेशकः राजीवकुमारशर्मा अवदत् यत् अस्मिन्नभियाने वरिष्ठनागरिकेभ्यः महिला-सुरक्षायाः, साइबर-अपराधेभ्यः रक्षणस्य तथा ११२, १९३०, १०९० सहायता-सङ्ख्यानां विषये अपि सूचना प्रदत्ता। करौली-जनपदे सर्वाधिकैः वृद्धैः सह सम्पर्कः कृतः, अन्येषु जनपदेष्वपि आरक्षकदलैः गृहं गृहं गत्वा संवादः कृतः।
अभियानस्य काले उदयपुरे एकस्यै वृद्धमहिलायै सम्पत्तिसम्बद्धानां वैधानिक-अधिकाराणां विषये सूचना प्रदत्ता। धौलपुरे आरक्षकैः परामर्शदानेन एकः वृद्धः पुनः स्वपरिवारेण सह मेलितः। डीजीपी राजीवकुमारशर्मा अवदत् यत् राजस्थान-आरक्षकाः महिलानां वरिष्ठनागरिकाणां च सुरक्षा-सम्भ्रम-विश्वासानां संरक्षणाय दृढसङ्कल्पिताः सन्ति तथा एतादृशानि जनकल्याणकारी-अभियानानि भविष्येऽपि निरन्तरं सञ्चालयिष्यन्ते।
Hindusthan Samachar / Divya Ranjan