Enter your Email Address to subscribe to our newsletters

जयपुरनगरम्, २३ जुलाईमासः (हि.स.)। भाजपापक्षस्य पूर्वप्रदेशाध्यक्षः राज्य-वित्त-आयोगस्य अध्यक्षश्च डॉ. अरुणचतुर्वेदी नेता-प्रतिपक्षं राहुलगान्धिनम्, कांग्रेसपक्षं सम्पूर्णं विपक्षं च लोकतान्त्रिकमर्यादानाम् उल्लङ्घनस्य अराजकतायाः प्रसारस्य च आरोपम् अकरोत्। सः अवदत् यत् प्रश्नपत्र-प्रस्रवणम् इव गम्भीरविषये विपक्षः संसदि चर्चां कर्तुं न इच्छति, अपितु कोलाहलस्य विरोध-प्रदर्शनस्य च राजनीतिं करोति।
गुरुवासरे प्रकाशिते वक्तव्ये डॉ. चतुर्वेदी अवदत् यत् संसदे प्रधानमन्त्रिणः निवासस्य बहिश्च विरोधप्रदर्शनं लोक-तान्त्रिकपरम्पराणां विरुद्धम् अस्ति। राहुलगान्धेः कांग्रेसपक्षस्य च उद्देश्यं प्रश्नपत्र-प्रस्रवण-विषये सार्थकचर्चा न, अपितु केवलं राजनैतिकवातावरणस्य दूषणमेव इति तेन आरोपः कृतः। गतदिनेषु घटितैः प्रसङ्गैः विपक्षः अराजकतां प्रसारयितुं प्रयतते इति स्पष्टं भवतीति सः अवदत्। कांग्रेसपक्षस्य वक्तव्येषु कटाक्षं कुर्वन् सः अवदत् यत् तेषां व्यवहारः शतं मूषकान् भुक्त्वा मार्जारी तीर्थयात्रां करोति इति लोकोक्तेः सदृशः अस्ति।
सः विपक्षात् स्पष्टीकरणम् अयाचत् यत् सः प्रदर्शनकारिणां, हिंसकक्रियाणां, अराजक-तत्त्वानां च पक्षे अस्ति, उत लोकतान्त्रिकव्यवस्थायाः विधिशासनस्य च समर्थनं करोति। डॉ. चतुर्वेदी आरोपम् अकरोत् यत् राहुलगान्धी पूर्वम् यूपीए-सर्वकारस्य काले अध्यादेशं विदारितवान्, अधुना च लोकतान्त्रिकसंस्थानां गौरवं ह्रासयति। प्रधानमन्त्रिणः निवासस्य बहिः विरोधप्रदर्शनं प्रधानमन्त्रीपदस्य गौरवस्य विरुद्धम् अस्तीति सः उक्तवान्।
डॉ. चतुर्वेदी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी प्रश्नपत्र-प्रस्रवण-प्रकरणे संसदि चर्चां शीघ्रान्वेषणं च कर्तुं सिद्धः अस्ति, किन्तु विपक्षः चर्चातः पलायते। यदि संसदि चर्चा भविष्यति तर्हि विपक्षशासितेषु राज्येषु जातानाम् प्रश्नपत्र-प्रस्रवण-प्रकरणानामपि चर्चा भविष्यति, अतः कांग्रेसपक्षः चर्चां न इच्छतीति तेन आरोपः कृतः।
सः राजस्थानस्य पूर्वकांग्रेस-सर्वकारमपि लक्ष्यीकृत्य अवदत् यत् पूर्वमुख्यमन्त्रिणः अशोकगहलोतस्य कार्यकाले एकोनविंशतिः प्रश्नपत्र-प्रस्रवण-प्रकरणानि अभवन्, तथापि न कश्चित् त्यागपत्रम् अयच्छत्, न च निष्पक्षान्वेषणं कृतम्। तस्मिन् काले तत्कालीन-उपमुख्यमन्त्री सचिनपायलटः अजमेरतः जयपुरपर्यन्तं पदयात्राम् अकरोत्, तथापि कांग्रेसनेतृत्वेन तस्य विरोधः कृतः। कांग्रेसः केवलं राजनैतिकप्रदर्शनं करोति, छात्राणां भविष्यस्य वास्तविकचिन्ता तस्याः नास्तीति अपि डॉ. चतुर्वेदिना आरोपः कृतः।
Hindusthan Samachar / Dheeraj Maithani