Enter your Email Address to subscribe to our newsletters


भोपालम्, 23 जुलाईमासः (हि.स.) ।मध्यप्रदेशे समाननागरिकसंहितां यूसीसी इति विषये समाजस्य विविधधर्मेषु वर्गेषु च व्यापकसमर्थनं दृश्यते। मुख्यमन्त्रिणः डा मोहनयादवस्य इन्दौरागमनसमये गुरुवासरे विविधधर्मप्रतिनिधयः तथा अनेकसामाजिकसङ्घटनानां पदाधिकारी सदस्याश्च विमानस्थानकम् आगतवन्तः। ते समाननागरिकसंहितायाः समर्थनं व्यक्तीकृत्य मुख्यमन्त्रिणं डा यादवम् अभिनन्दितवन्तः तथा अस्मै महत्त्वपूर्णनिर्णयाय तस्य प्रति कृतज्ञताम् अपि व्यक्तीकृतवन्तः।
अस्मिन् अवसरे मुख्यमन्त्री डा यादवः अवदत् यत् समाननागरिकसंहितायाः उद्देश्यं सर्वेभ्यः नागरिकेभ्यः समानाधिकारान् समानन्यायं च प्रदातुम् अस्ति। एषा व्यवस्था संविधानस्य मूलभावनानुरूपं सामाजिकसमरसतां समानतां न्यायं च सुदृढीकर्तुं महत्त्वपूर्णं पदम् अस्ति। तेन उक्तं यत् प्रदेशसरकारः समाजस्य सर्वेषां वर्गाणां हितसंरक्षणाय समानावसरसुनिश्चितीकरणाय च प्रतिबद्धः अस्ति।
मुख्यमन्त्री डा यादवः समर्थनाय उपस्थितानां सर्वेषां धर्माणां सामाजिकसङ्घटनानां प्रतिनिधीनां प्रति कृतज्ञतां व्यक्तीकृत्य अवदत् यत् समाजस्य एषः विश्वासः सहयोगश्च प्रदेशस्य समावेशिविकासं सामाजिकसौहार्दं च अधिकं सुदृढं करिष्यति।
अस्मिन् अवसरे महापौरः पुष्यमित्रभार्गवः विधायकः रमेशमेन्दोला गोलूशुक्लः सुमितमिश्रः इत्यादयः अन्ये जनप्रतिनिधयः सम्भागायुक्तः डा सुदामखाडे पुलिसमहानिरीक्षकः अनुरागः पुलिसकमिश्नरः सन्तोषकुमारसिंहः कलेक्टरः शिवमवर्मा इत्यादयः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani