कांवड़मेलापकस्य सज्जाः तीव्राः - पञ्चकोटिश्रद्धालुभ्यः 32 अस्थायीचिकित्सालयाः, वनेषु वनकर्मिणां नियुक्तिः
हरिद्वारम्, 23 जुलाईमासः (हि.स.)।विश्वप्रसिद्धकांवडमेलां प्रति हरिद्वारे सज्जताः अन्तिमचरणं प्राप्ताः। अस्मिन् वारे प्रायः पञ्चकोटि कांवडयात्रिकाणाम् आगमनस्य अनुमानम् अस्ति। सुरक्षां सुविधाः च दृष्ट्वा जनपदप्रशासनं स्वास्थ्यविभागः वनविभागः एसडीआरएफ
प्रतीकात्मक फोटो


हरिद्वारम्, 23 जुलाईमासः (हि.स.)।विश्वप्रसिद्धकांवडमेलां प्रति हरिद्वारे सज्जताः अन्तिमचरणं प्राप्ताः। अस्मिन् वारे प्रायः पञ्चकोटि कांवडयात्रिकाणाम् आगमनस्य अनुमानम् अस्ति। सुरक्षां सुविधाः च दृष्ट्वा जनपदप्रशासनं स्वास्थ्यविभागः वनविभागः एसडीआरएफ एनडीआरएफ च व्यापकव्यवस्थान् कृतवन्तः।

मेलाकाले ३२ अस्थायिचिकित्सालयाः स्थाप्यन्ते यत्र वैद्याः परिचारककर्मचारिणः रुग्णवाहिकाः आवश्यकौषधानि च उपलब्धानि भविष्यन्ति। विशेषरूपेण सर्पविषप्रतिरोधकौषधं श्वानदंशप्रतिरोधकौषधं च पर्याप्तमात्रायाम् उपलब्धं भविष्यति।

वनविभागेन जगजीतपुर श्यामपुर सहितेषु संवेदनशीलेषु वनप्रदेशेषु गजस्य गुलदारस्य च सञ्चारं दृष्ट्वा विशेषसावधानता पालनीयेत्येव निर्णयः कृतः। कांवडमार्गाणां समीपे स्थितानां झाडीनां परिशोधनं क्रियते तथा वनकर्मिणां दलानि चतुर्विंशतिघण्टाः पर्यन्तं निरन्तरं गश्तकार्ये नियुक्तानि भविष्यन्ति।

गङ्गातटेषु कस्यापि आपत्कालीनस्थितेः निवारणार्थम् एसडीआरएफ एनडीआरएफ च दलानि जलरुग्णवाहिकाभिः सह नियुक्तानि भविष्यन्ति। मेलाकाले स्वास्थ्यविभागस्य कर्मचारिणां अवकाशाः अपि निरस्ताः कृताः।

प्रशासनेन कांवडमेलाकाले कुम्भसम्बद्धानां नवीननिर्माणकार्याणां उपरि प्रतिबन्धः स्थापितः यतः श्रद्धालूनां आवागमनं न बाध्येत। सहैव नगरं अतिक्रमणमुक्तं कर्तुं निरन्तरम् अभियानं प्रचलति।

Hindusthan Samachar / Dheeraj Maithani