श्रावण कांवड़ यात्रा : कांवडोत्थापकः पंडित अधीरः अवदत् नियमं, श्रद्धालुभ्यः आह्वानम्
हरिद्वारम्,23 जुलाईमासः (हि.स.)। श्रीअखण्डपरशुरामअखाडायाः पण्डितः अधीरकौशिकः श्रावणमासे आरभ्यमाणां कांवडयात्राम् अधिकृत्य शिवभक्तेभ्यः आवश्यकनियमानां धार्मिकमर्यादानां च संसूचनां प्रदत्तवान्। सः गुरुवासरे पत्रकारैः सह वार्तां कुर्वन् अवदत् यत् कां
प्रेसवार्ता के दौरान


हरिद्वारम्,23 जुलाईमासः (हि.स.)। श्रीअखण्डपरशुरामअखाडायाः पण्डितः अधीरकौशिकः श्रावणमासे आरभ्यमाणां कांवडयात्राम् अधिकृत्य शिवभक्तेभ्यः आवश्यकनियमानां धार्मिकमर्यादानां च संसूचनां प्रदत्तवान्।

सः गुरुवासरे पत्रकारैः सह वार्तां कुर्वन् अवदत् यत् कांवडयात्रा केवलम् आस्थायाः पर्व नास्ति, अपितु अनुशासनस्य पवित्रतायाः सनातनपरम्पराणां पालनस्य च प्रतीकं वर्तते। तेन सर्वान् शिवभक्तान् नियमपालनपूर्वकं श्रद्धया भक्त्या च यात्रां सम्पूर्णतया निर्वहणाय आग्रहः कृतः।

पण्डितः अधीरकौशिकः अवदत् यत् कांवडयात्रायाः आरम्भसमये गृहात् निर्गच्छन् भगिन्याः हस्ताभ्यां तिलकं आरार्तिक्यं च कारयित्वा ज्येष्ठजनानाम् आशीर्वादं गृहीत्वा प्रस्थानं शुभं मन्यते। हरिद्वारं प्राप्य प्रथमं मातरं गङ्गां प्रणमेत्, ततः यस्य प्रयोजनस्य कृते कांवडयात्रां करोति तस्य सङ्कल्पं कृत्वा गङ्गाजलं कांवडे स्थापयेत्।

तेन उक्तं यत् कांवडम् उद्धृत्य यदि मार्गे लघुशङ्का कर्तव्या भवेत् तर्हि हस्तौ पादौ मुखं च प्रक्षाल्य एव पुनः कांवडम् उद्धरेत्। यदि शौचार्थं गन्तव्यं भवेत् तर्हि स्नानं कृत्वा धूपदीपौ प्रदर्श्य एव पुनः कांवडम् उद्धरेत्। यात्राकाले सर्वप्रकारस्य मादकद्रव्यसेवनं सर्वथा निषिद्धम् अस्ति।

तेन शिवभक्तेभ्यः प्रार्थना कृता यत् यात्राकाले केवलं शुद्धं सात्त्विकं वैष्णवं भोजनमेव सेवनीयम्। यत्र यत्र भण्डारे प्रसादः स्वीकृतः भवति तत्र तत्र स्वश्रद्धानुसारं दानम् अवश्यम् अर्पणीयम्। सहैव कांवडं गुलरवृक्षस्य अधः न नेतव्यम्।

जलाभिषेकानन्तरं गृहं प्रत्यागत्य भगिन्याः हस्ताभ्याम् आरार्तिक्यं कारयित्वा तस्यै नेगं दत्त्वा एव गृहे प्रवेशः कर्तव्यः। कांवडस्य उद्घाटनात् पूर्वं गृहे भगवान् सत्यनारायणस्य कथा कार्या। अनन्तरं भगिन्याः कन्यायाः वा हस्ताभ्यां कांवडस्य प्रथमसूत्रम् उद्घाटनीयम्।

पण्डितः अधीरकौशिकः अवदत् यत् कांवडयात्राकाले देवदेवतानां स्वरूपं धारयित्वा चलच्चित्रगीतानां ध्वनिषु नृत्यं कर्तुं धार्मिकदृष्ट्या अनुचितम् अस्ति। तेन श्रद्धालुभ्यः सनातनसम्बद्धव्यापारिभ्यः एव कांवडसामग्री क्रेतुं, राष्ट्रियध्वजस्य सम्मानं रक्षितुं, स्वकांवडे भगवाध्वजं स्थापयित्वा सनातनसंस्कृतेः परिचयं वर्धयितुं च प्रार्थना कृता। सहैव ताजियरूपिणीं विशालकांवडं न निर्मातुमपि तेन प्रार्थना कृता।

तेन उक्तं यत् कांवडयात्रा भगवान् शिवस्य भजनैः, बम बम भोले इति जयघोषैः, पूर्णश्रद्धया अनुशासनेन मर्यादया च सम्पन्ना भवेत्। अनेन यात्रायाः आध्यात्मिकमहत्त्वं पुण्यं च अधिकं वर्धते। अस्मिन् अवसरे आचार्यः पवनशास्त्री, आचार्यः विष्णुशास्त्री, स्वामी रुद्रानन्दः, स्वामी कार्तिकगिरिः, ऋषिशर्मा, दिनेशबाली च उपस्थिताः आसन्।---------------

Hindusthan Samachar / Dheeraj Maithani