विपक्षे उपवेशनात् देशस्य भ्रमणस्य अनुज्ञा न लभ्यते - गजेन्द्रसिंहशेखावतः
जोधपुरनगरम्, २३ जुलाईमासः (हि.स.)। केन्द्रीय-संस्कृति-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः विपक्षं लक्ष्यीकृत्य उक्तवान् यत् विपक्षे उपवेशनमात्रेण तथ्यानि विकृत्य देशं भ्रामयितुं कस्यापि अनुज्ञा न लभ्यते। सः अपृच्छत् - किं विपक्षनेता न जानाति यत् कांग
jodhpur


जोधपुरनगरम्, २३ जुलाईमासः (हि.स.)। केन्द्रीय-संस्कृति-पर्यटनमन्त्री गजेन्द्रसिंहशेखावतः विपक्षं लक्ष्यीकृत्य उक्तवान् यत् विपक्षे उपवेशनमात्रेण तथ्यानि विकृत्य देशं भ्रामयितुं कस्यापि अनुज्ञा न लभ्यते। सः अपृच्छत् - किं विपक्षनेता न जानाति यत् कांग्रेस-पक्षेन एव प्रश्नपत्र-प्रस्रवणस्य समस्या पोषिता, तस्याः मूलानि च दृढीकृतानि? राजस्थाने अशोक-गहलोत-सर्वकारस्य काले निरन्तरं प्रकाशमागतानि प्रश्नपत्र-प्रस्रवणप्रकरणानि एतस्य विफलतायाः प्रत्यक्षं प्रमाणम् इति।

सः सामाजिकमाध्यमे प्रकाशिते स्वसन्देशे अवदत् यत् कांग्रेस-शासितराज्येषु सर्वकाराः यूनां भविष्येन सह क्रीडन्तः आसन्, यदा तु मोदी-सर्वकारेण कोलाहलस्य स्थाने कार्यवाही एव स्वीकृता। तेन कठोराः विधयः निर्मिताः, व्यवस्था सुदृढा कृता, अधुना च द्रुतन्यायालयानां माध्यमेन दोषिणां शीघ्रं कठोरदण्डप्रदानं सुनिश्चितं कर्तुमपि निर्णयः कृतः।

शेखावतः उक्तवान् यत् प्रश्नोत्तापनाय संसदः अपेक्षया श्रेष्ठं मञ्चं नास्ति। सर्वकारः चर्चायै पूर्णतया सज्जः आसीत्, किन्तु विपक्षः चर्चातः पलायित्वा उपद्रवराजनीतिम् एव अवृणोत्। भारतस्य भविष्येन सह राजनीतिं कुर्वन्तः एतत् स्मरन्तु यत् युवभ्यः केवलं घोषणाः न अपेक्षिताः, अपितु निष्पक्षाः परीक्षाः न्यायश्च अपेक्षितौ स्तः।

Hindusthan Samachar / Divya Ranjan