निराश्रित-वृद्धजनानां परिचयार्थं जनजागरूकता-अभियानम्, आवश्यकतायुक्तेभ्यः परिवारेभ्यः खाद्यान्न-सामग्री-वितरणम्
जम्मूनगरम्, २४ जुलाईमासः (हि.स.)। षष्टिवर्षाधिकवयस्कानां निराश्रितानाम् असहायानां च वरिष्ठनागरिकाणां परिचयं कृत्वा तेभ्यः संरक्षणं सम्यक् परिचर्यां च प्रदातुं अम्फल्ला-वृद्धाश्रमेण जम्मूनगरे राजकीय-कन्या-माध्यमिक-विद्यालये, कोटली-भगवान-सिंह इत्यत्र
निराश्रित बुजुर्गों की पहचान को लेकर जागरूकता अभियान, जरूरतमंद परिवारों को बांटी राशन किट


जम्मूनगरम्, २४ जुलाईमासः (हि.स.)। षष्टिवर्षाधिकवयस्कानां निराश्रितानाम् असहायानां च वरिष्ठनागरिकाणां परिचयं कृत्वा तेभ्यः संरक्षणं सम्यक् परिचर्यां च प्रदातुं अम्फल्ला-वृद्धाश्रमेण जम्मूनगरे राजकीय-कन्या-माध्यमिक-विद्यालये, कोटली-भगवान-सिंह इत्यत्र जन-जागरूकता-खाद्यान्नसामग्री-वितरण-कार्यक्रमः आयोजितः। कार्य-क्रमस्य नेतृत्वं वृद्धाश्रमस्य सचिवः डा. दिनेश-गुप्तः अकरोत्। अस्मिन् अवसरे संयुक्त-सचिवः विजय-गुप्तः, प्रबन्ध-समिति-सदस्यौ सतपाल-शर्मा, सरदार-राजिन्द्र-सिंहः, समाजसेवी प्रमोद-कुमारः च सहयोगम् अकुर्वन्।

कार्यक्रमं सम्बोधयन् डा. दिनेश-गुप्तः अवदत् यत् समाजे अनेके वरिष्ठ-नागरिकाः एकाकिनः असहायाश्च जीवनं यापयन्ति। सः जनान् आहूतवान् यत् यदि तेषां समीपे कश्चित् वृद्धः अस्ति यस्य परिचर्यां कर्ता कोऽपि नास्ति, तर्हि तस्य सूचना वृद्धाश्रमाय दीयताम्, येन तस्मै सुरक्षितं सम्मानजनकं च वातावरणं प्रदातुं शक्येत। सः अवदत् यत् वृद्धाश्रमे पात्रेभ्यः वरिष्ठनागरिकेभ्यः निःशुल्क-आवासः, भोजनम्, चिकित्सासुविधा, परिचारिका-सेवा, फिजियोथेरेपी-चिकित्सा, पारिवारिक-सदृशं वातावरणं च प्रदीयते।

कार्यक्रमस्य मुख्यातिथिः तथा बालविकास-परियोजना-अधिकारिणी आर.एस. पुरा अतीक्षा-सेठी महिलानां, बालकानां, विधवानां, पोषणस्य, सामाजिक-सुरक्षायाश्च सम्बन्धिनीनां विविध-शासकीय-योजनानां विषये सूचनां दत्त्वा पात्रजनान् तासां लाभं ग्रहीतुं प्रार्थितवती। सा बालकानां नियमित-शिक्षार्थं तान् आङ्गनवाडी-केन्द्रेषु शासकीय-विद्यालयेषु च प्रेषयितुं विशेषं बलम् अयच्छत्।

विद्यालयस्य प्रधानाचार्या वृद्धाश्रमस्य अस्य प्रयत्नस्य प्रशंसां कृत्वा आश्वासनम् अयच्छत् यत् विद्यालय-प्रशासनं क्षेत्रे निवसतां निराश्रित-वरिष्ठनागरिकाणां परिचये सर्वथा सहयोगं करिष्यति। कार्यक्रमकाले आवश्यकतायुक्तेभ्यः परिवारेभ्यः खाद्यसामग्रीयुक्ताः खाद्यान्न-किट् वितरिताः। डा. दिनेश-गुप्तः अवदत् यत् एताः राशन-सामग्री-पेटिकाः समाजसेविभ्यः, दानदातृभ्यः, शुभचिन्तकेभ्यश्च प्राप्तया सामग्रीया सज्जीकृत्य आवश्यकतायुक्त-परिवारेभ्यः प्रदत्ताः।

Hindusthan Samachar / Divya Ranjan