आयुर्वेदाय वैज्ञानिक अनुसंधानेन लप्स्यते नूतनपरिचयः : प्रो. रबीनारायण आचार्यः
सीसीआरएएस महानिदेशकः अकरोत् एनआईभ्रमणम्। चंडीगढ़म्, 24 जुलाईमासः (हि.स.)। आयुर्वेदविज्ञानानुसन्धानपरिषदः (सीसीआरएएस) महानिदेशकः प्रोफेसरवैद्यः रबीनारायणाचार्यः राष्ट्रीयायुर्वेदसंस्थानस्य पञ्चकूलाशाखायाः भ्रमणम् अकरोत्। तेन संस्थानस्य चिकित्सासुव
आयुर्वेद विज्ञान अनुसंधान परिषद के महानिदेशक प्रोफेसर वैद्य रबीनारायण आचार्य  एन आई ए का दौरा करते हुए।


सीसीआरएएस महानिदेशकः अकरोत् एनआईभ्रमणम्।

चंडीगढ़म्, 24 जुलाईमासः (हि.स.)। आयुर्वेदविज्ञानानुसन्धानपरिषदः (सीसीआरएएस) महानिदेशकः प्रोफेसरवैद्यः रबीनारायणाचार्यः राष्ट्रीयायुर्वेदसंस्थानस्य पञ्चकूलाशाखायाः भ्रमणम् अकरोत्। तेन संस्थानस्य चिकित्सासुविधानां निरीक्षणं कृतम्। संस्थानस्य अधिष्ठाता प्रोफेसरः गुलाबचन्दपमनानी तस्य स्वागतं कृतवान्। ततः पञ्जीकरणविभागः, पञ्चकर्मविभागः, बहिरङ्गरोगिविभागः, अन्तरङ्गरोगिविभागः, औषधनिर्माणकेन्द्रम् तथा अत्याधुनिककेन्द्रीयप्रयोगशाला च दर्शिता।

निरीक्षणकाले प्रो रबीनारायणाचार्यः चिकित्सकैः सह संवादं कृत्वा संस्थानस्य कार्यप्रणालीं शैक्षणिकगतिविधीश्च अवगच्छत्। तेन शैक्षणिकविभागस्य अपि निरीक्षणं कृतम्। अन्ताराष्ट्रियछात्रावासः, छात्रीछात्रावासः तथा छात्रावासः अपि निरीक्षिताः।

प्रोफेसरः गुलाबचन्दपमनानी अवदत् यत् संस्थाने प्रतिदिनं पञ्चशताधिकाः रोगिणः बहिरङ्गरोगिविभागस्य माध्यमेन परामर्शं चिकित्सां च प्राप्नुवन्ति। पञ्चकर्मसहिताः विशिष्टचिकित्सासेवाः अपि प्रदीयन्ते। अत्याधुनिकप्रयोगशालायां विविधपरीक्षणसुविधाः रोगिभ्यः उपलब्धाः सन्ति।

महानिदेशकः रबीनारायणाचार्यः संस्थाने प्रदीयमानानां आयुर्वेदस्वास्थ्यसेवानां गुणवत्तां प्रशंसन् अवदत् यत् आयुर्वेदस्य चिकित्सापद्धतिरूपेण अधिकसुदृढीकरणाय गुणवत्तापूर्णम् अनुसन्धानम्, आधुनिकप्रौद्योगिक्याः समावेशः तथा रोगिकेन्द्रितसेवानां संवर्धनम् अत्यावश्यकम्। तेन आशा व्यक्ता यत् राष्ट्रियायुर्वेदसंस्थानस्य पञ्चकूलाशाखा भविष्ये आयुर्वेदचिकित्सायाः शिक्षायाः अनुसन्धानस्य च क्षेत्रे उत्कृष्टतायाः नूतनमानदण्डान् स्थापयिष्यति।

प्रोफेसरः गुलाबचन्दपमनानी अवदत् यत् आयुषमन्त्रालयस्य मार्गदर्शने कुलपतिः प्रो संजीवशर्मा आयुर्वेदचिकित्सायाः प्रचारप्रसारार्थं सततं प्रयत्नान् करोति। संस्थानेन निःशुल्कस्वास्थ्यपरीक्षणशिविराणां माध्यमेन जनसामान्याय आयुर्वेदचिकित्सासेवाः प्रदीयन्ते। हरियाणा, पञ्जाब, हिमाचलप्रदेशः, चण्डीगढं, दिल्ली तथा अन्येभ्यः राज्येभ्यः अपि रोगिणः उपचारार्थम् अत्र आगच्छन्ति। संस्थानस्य प्रमुखम् उद्देश्यम् आयुर्वेदस्य जनसामान्यपर्यन्तं प्रसारः तथा गुणवत्तापूर्णस्वास्थ्यसेवानां प्रदानेन अधिकाधिकजनानां हितसाधनम् इति।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani