केंद्रेण कर्नाटक-आंध्र प्रदेशे रेलवेविभागीयमल्टीट्रैकिंग परियोजनायै दत्ता सहमतिः
नव दिल्ली, 24 जुलाईमासः (हि.स.)। प्रधानमन्त्रिणो नरेन्द्र मोदिनोऽध्यक्षतायाः आर्थिककार्यसम्बद्धमन्त्रिमण्डलसमितिः शुक्रवासरे कर्नाटक आन्ध्रप्रदेशयोः बल्लारी गुंटाकल रेलखण्डे तृतीयचतुर्थरेलमार्गनिर्माणपरियोजनायाः अनुमोदनं दत्तवती। अस्याः परियोजनायाः
राष्ट्रीय मीडिया केंद्र में कैबिनेट के फैसलों की जानकारी देते हुए केंद्रीय सूचना प्रसारण एवं रेल मंत्री अश्विनी वैष्णव।


नव दिल्ली, 24 जुलाईमासः (हि.स.)। प्रधानमन्त्रिणो नरेन्द्र मोदिनोऽध्यक्षतायाः आर्थिककार्यसम्बद्धमन्त्रिमण्डलसमितिः शुक्रवासरे कर्नाटक आन्ध्रप्रदेशयोः बल्लारी गुंटाकल रेलखण्डे तृतीयचतुर्थरेलमार्गनिर्माणपरियोजनायाः अनुमोदनं दत्तवती। अस्याः परियोजनायाः अनुमानितव्ययः १२६४ कोटिरूप्यकाणि अस्ति तथा एषा परियोजना २०२८ २९ तमवर्षपर्यन्तं सम्पन्ना भविष्यति।

सूचनाप्रसारणरेलमन्त्री अश्विनी वैष्णव राष्ट्रियमाध्यमकेन्द्रे मन्त्रिमण्डलनिर्णयान् उद्घोषयन् अवदत् यत् एषा परियोजना पीएम गतिशक्ति राष्ट्रियमहायोजनायाः अन्तर्गतं निर्मिता अस्ति। अस्याः उद्देश्यः बहुविधपरिवहनसम्पर्कस्य रसददक्षतायाश्च संवर्धनम् अस्ति। अस्याः परियोजनायाः फलस्वरूपं भारतीयरेलजाले प्रायः ४६ किलोमीटरपरिमितस्य विस्तारः भविष्यति तथा त्रयाणां जनपदानां प्रायः ९९ ग्रामाः उत्तमेन रेलसम्पर्केण युक्ताः भविष्यन्ति। एतेषां ग्रामाणां जनसङ्ख्या प्रायः सप्तलक्षम् अस्ति।

अस्याः परियोजनायाः माध्यमेन लौहधातुः डोलोमाइट शिलाचूर्णम् इस्पातम् अङ्गारः उर्वरकाः धान्यानि च इत्यादीनां वस्तूनां परिवहनक्षमता वर्धिष्यते। अनुमानः अस्ति यत् अतिरिक्तमालपरिवहनं प्रतिवर्षं १६ दशमलव २२ मिलियन टनपरिमाणं यावत् वर्धिष्यते। अस्याः परियोजनायाः फलस्वरूपं तैलायाते १ दशमलव ३२ कोटिलीटरपरिमितस्य बचतिः भविष्यति तथा कार्बनोत्सर्जने ६ दशमलव ६७ कोटिकिलोग्रामपरिमिता न्यूनता भविष्यति। एतत् प्रायः ० दशमलव २७ कोटिवृक्षारोपणस्य समतुल्यम् अस्ति।

अस्याः परियोजनायाः फलस्वरूपं बल्लारीदुर्गः श्रीकुमारस्वामीमन्दिरम् इत्यादीनि प्रमुखपर्यटनस्थलानि प्रति रेलसम्पर्कः अपि अधिकः सुदृढः भविष्यति। अनेन परिचालनदक्षतायां सेवाविश्वसनीयतायां च सुधारः भविष्यति तथा क्षेत्रीयविकासः अधिकवेगेन प्रवर्धिष्यते।।

--------------

Hindusthan Samachar / Dheeraj Maithani