Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २४ जुलाईमासः (हि.स.)। कारगिल-विजय-दिवसस्य २७तम-वर्षग्रन्थेः (२६ जुलाईमासः) अवसरे शुक्रवासरे लखनऊस्थितस्य नवयुग-कन्या-महाविद्यालयस्य १९ उत्तरप्रदेश-गर्ल्स-बटालियन-एनसीसी इत्यस्याः छात्रसैनिकाः एनसीसी-अधिकारिण्याः मेजर (डा.) मनमीत-कौर-सोढी इत्यस्याः नेतृत्वे परमवीरचक्र-विजेतुः बलिदानी-कप्तान-मनोज-कुमार-पाण्डेयस्य निवासं गत्वा तस्य चित्रे पुष्पाञ्जलिं समर्प्य श्रद्धाञ्जलिम् अर्पितवन्त्यः।
अस्मिन् अवसरे छात्रसैनिकाः कप्तान-मनोज-कुमार-पाण्डेयस्य भ्रात्रा मनमोहन-पाण्डेयेन तथा तस्य भार्यया अनुराधा-पाण्डेयया सह मिलित्वा ताभ्यां पादपं हस्तनिर्मितं पुष्पगुच्छं च समर्पितवन्त्यः। ताभ्यां कप्तान-इत्यस्य प्रेरणादायकानि संस्मरणानि कथितानि। ज्ञापितं च यत् १९९९ तमे वर्षे कारगिल-युद्धस्य समये कप्तान-मनोज-कुमार-पाण्डेयः जम्मू-कश्मीरस्य बटालिक-क्षेत्रे शत्रोः अनेकानि सुदृढानि स्थानानि विजेतुं सञ्चालितस्य अभियानस्य नेतृत्वम् अकरोत्।
२/३ जुलाई १९९९ तिथौ रात्रौ खालूबार-क्षेत्रे सः अदम्यसाहसं, उत्कृष्टनेतृत्वं, अद्वितीयां वीरतां च प्रदर्श्य शत्रोः अनेकानि स्थानानि ध्वस्तवान्। गम्भीरतया आहतः सन्नपि स्वसहचराणां नेतृत्वं निरन्तरम् अकरोत् तथा अन्तिमक्षणपर्यन्तं युद्धं कृत्वा वीरगतिं प्राप्तवान्। तादृशस्य वीरबलिदानिनः जीवनं सर्वेषां प्रेरणास्रोतः अस्ति।
छात्रसैनिकानां कृते परमवीरचक्रस्य प्रत्यक्षदर्शनम् अविस्मरणीयः क्षणः आसीत्। ताः तस्य निवासे स्थापितां चित्रप्रदर्शनीम् अपि अवलोक्य राष्ट्राय तेन कृतम् अद्वितीयं बलिदानं प्रणम्य स्मृतवन्त्यः।
१९ उत्तरप्रदेश-गर्ल्स-बटालियन-एनसीसी इत्यस्य कमाण्डिङ्ग-अधिकारी कर्नल (डा.) दिनेश-कुमार-पाठकः तथा महाविद्यालयस्य प्राचार्या प्रोफेसर-मञ्जुला-उपाध्याया कारगिल-विजय-दिवसस्य शुभाशंसाः प्रदाय उक्तवन्तौ यत् बलिदानिनां त्यागः बलिदानं च सदा देशवासिनां प्रेरणास्रोतांसि भविष्यन्ति। एतादृशाः कार्यक्रमाः युवसु राष्ट्रप्रेम्णः, अनुशासनस्य, कर्तव्यनिष्ठायाश्च भावनां सुदृढां कुर्वन्ति।
Hindusthan Samachar / Divya Ranjan