Enter your Email Address to subscribe to our newsletters


डा. मयङ्क-चतुर्वेदी
देशे ‘नीट्’ परीक्षायाः प्रश्नपत्र-प्रस्रवणस्य प्रकरणं प्रकाशम् आगते स्वाभाविकतया लक्षशः छात्रेषु तेषां पालकेषु च आक्रोशः उत्पन्नः। एषः तेषां यूनां भविष्यस्य प्रश्नः आसीत्, ये बहूनि वर्षाणि परिश्रमं, आर्थिकसंसाधनानि, मानसिकशक्तिं च अस्याः परीक्षायाः सिद्धतायां निवेशितवन्तः। तादृशे काले छात्राणां शान्तिपूर्णम् आन्दोलनं लोकतन्त्रस्य स्वाभाविक-अभिव्यक्तिरिति मन्तुं शक्यते।
वस्तुतः प्रत्येकं लोकतान्त्रिक-व्यवस्थायां छात्राणां स्वमतप्रकाशनस्य, सर्वकारात् उत्तरस्य याचनस्य, शिक्षाव्यवस्थायां सुधारस्य च पूर्णः अधिकारः अस्ति। किन्तु देहल्यां गतदिनेषु यद् अभवत्, तत् दृष्ट्वा प्रश्नः उदेति—किमिदम् आन्दोलनम् अद्यापि छात्राणां भविष्यं शिक्षासुधारं च केन्द्रे कृत्वा प्रवर्तते?
जन्तर-मन्तरे प्रवर्तमानस्य प्रदर्शनस्य बहूनि दृश्यानि, तत्र उच्चारिताः विविधाः घोषाः, विभिन्नानां राजनैतिक-विचारधारात्मक-सङ्घटनानां वर्धमानः सहभागः, शिक्षायाः असम्बद्धानां विषयाणां प्राधान्यं च अस्य आन्दोलनस्य दिशा-लक्ष्ययोः विषये गम्भीरां चर्चाम् उद्भावितवन्ति।
अस्यैव सन्दर्भे जन्तर-मन्तरे आयोजितस्य प्रदर्शनस्य विषये अनेकानि दृश्यश्रव्याणि, सामाजिकमाध्यमेषु प्रकाशिताः लेखाः, सार्वजनिकचर्चाश्च प्रकाशं गताः। तेषु केषुचित् स्थलेषु एतादृशानां घोषाणां श्रवणस्य दावाः कृताः, येषां नीट-परीक्षासुधारः अथवा शिक्षाव्यवस्थया सह प्रत्यक्षः सम्बन्धः न दृश्यते।
यदि वास्तवमेव कस्मिंश्चित् प्रदर्शने “आरएसएस मुर्दाबाद”, “ब्राह्मण मुर्दाबाद”, “वयं हिन्दवः न स्मः”, अथवा देवदेवतासु अपमानजनक-टिप्पण्यः इत्यादयः घोषाः उच्चारिताः स्युः, तर्हि तद् सूचयति यत् आन्दोलनस्य नाम्ना वस्तुतः हिन्दुधर्मस्य सनातनपरम्परायाश्च विरोधः क्रियते। केचन घोषाः तावत् अत्यन्तम् आपत्तिजनकाः कथ्यन्ते यत् तेषां लेखनमपि कठिनम्। तथापि सत्यस्य परिचयः आवश्यकः। तेषु कथितेषु घोषेषु— “सीतायाः पतिः किं करिष्यति”, “भगवान् अपि...”, “नाम केवलम् अल्लाह-इत्यस्य भविष्यति”, “वयं हिन्दवः न स्मः”, “भारतस्य खण्डनं भविष्यति”- इत्यादयः उल्लिखिताः। एतेषां घोषाणां श्रवणेन कः देशभक्तः न क्रुध्येत? एते घोषाः आन्दोलनस्य घोषितलक्ष्यात् बहिः सन्ति तथा समाजे वैमनस्यस्य सृजनं कुर्वन्ति।
तथैव यदि मञ्चे महिला-आरक्षणम्, कृषक-आन्दोलनम् अथवा अन्ये राजनैतिकविषयाः प्रमुखतां प्राप्नुवन्ति, तर्हि जनानां मनसि एषः सन्देशः गच्छति यत् छात्राणाम् आन्दोलनम् अधुना विविध-कार्यसूचीनां संयुक्तमञ्चः जातः। लोकतान्त्रिक-बहुलता स्वभावतः न दोषः, किन्तु यदा मूलप्रश्नः पृष्ठतः गच्छति तदा आन्दोलनस्य प्रभावकारिता अपि क्षीयते। पत्रकारैः सह दुर्व्यवहारस्य, अव्यवस्थायाश्च वार्ताः दृश्यश्रव्यसामग्री च चिन्तां वर्धयन्ति।अन्यः महत्त्वपूर्णः विषयः संसाधनानां सहयोगस्य च अस्ति। सार्वजनिकचर्चासु एषोऽपि विषयः प्रकटितः यत् केषाञ्चित् प्रदर्शनकारिणां कृते विदेशेभ्यः भोजनम् अन्यसाहाय्यं वा प्रेष्यते। बाङ्ग्लादेश-पाकिस्तान-कतार-नेपाल-देशेभ्यः अज्ञातजनाः भोजन-वितरण-अनुप्रयोगैः महद् मूल्ययुक्तं भोजनं प्रेषयन्ति इति दृश्यश्रव्याणि प्रसारितानि। नेपालदेशस्य केचन युवानः भारतीययुवानः तथैव आन्दोलनं कर्तुं प्रेरयन्ति इत्यपि कथ्यते।
क्रान्तिकारी-युवा-सङ्गठनस्य सम्बद्धाः केचन जनाः “जय भीम” इति घोषं कुर्वन्तः दृश्यन्ते। अस्य घोषस्य अस्मिन् छात्र-आन्दोलने किं प्रयोजनम् इति विचारणीयम्। नेशनल-फेडरेशन-ऑफ-इण्डियन-विमेन अपि महिला-आरक्षणस्य विषयं प्राधान्येन उत्थापयति। प्रश्नः भवति - अस्य विषयस्य छात्र-आन्दोलने किं स्थानम्?
काङ्ग्रेस-सेवादलस्य स्वयंसेवकाः, विविधसङ्गठनानां सदस्याः, इस्लामधर्मानुयायिनः, बुर्काधारिण्यः महिलाः, कृषकसङ्गठनस्य प्रतिनिधयः च तत्र दृश्यन्ते। निहङ्ग-समुदायस्य केचन सदस्याः खड्गान् प्रदर्शयन्तः आरक्षककर्मचारिणः भयभीतान् कुर्वन्ति इति दृश्यश्रव्येषु प्रदर्शितम्। पत्रकारान् प्रति दुर्व्यवहारः अपि चिन्तनीयः। एतेन दृश्यते यत् सीजेपी-नामकस्य प्रदर्शनस्य लक्ष्यं छात्रहितसंरक्षणम् इति न दृश्यते, अपितु बहवः राजनैतिक-पक्षाः तत्र सक्रियतया दृश्यन्ते।
गतपञ्चदिनेषु सामान्यजनानां जीवनं कठिनम् अभवत्, यतः अनेकानि मेट्रो-स्थानकानि निमीलितानि सन्ति। सार्वजनिक-सम्पत्तेः हानिः न कदापि ग्राह्या, यतः सा जनसामान्यस्य करराशिना निर्मिता अस्ति। अतः अस्मिन् विषये सर्वेषां राजनैतिकदलानां भूमिकापि विचारणीया।सर्वकारस्य आलोचना लोकतन्त्रस्य स्वाभाविकः अंशः अस्ति, किन्तु यदि छात्र-आन्दोलनस्य केन्द्रबिन्दुः शिक्षासुधारात् विचलित्वा केवलं सत्तापरिवर्तनस्य राजनीतिः भवति, तर्हि मूलप्रश्नः पृष्ठतः पतति। शिक्षाव्यवस्थायाः सुधारः, परीक्षायाः पारदर्शिता, प्रश्नपत्र-सुरक्षा, परीक्षा-संस्थानानां उत्तरदायित्वम्, दोषिणां प्रति कठोरदण्डश्च - एव अस्य आन्दोलनस्य केन्द्रे भवितुम् अर्हन्ति।
अत्यन्तमहत्त्वपूर्णः प्रश्नः अस्ति - लक्षशः छात्राणां भविष्यसम्बद्धे आन्दोलने समाजैक्यस्य सन्देशः प्राधान्येन दातव्यः, उत समाजविभाजनस्य? यदि धर्मस्य, जातेः, समुदायविशेषस्य वा प्रति अपमानजनका भाषा प्रयुज्यते, तर्हि तेन आन्दोलनस्य नैतिकाधारः दुर्बलः भवति। शिक्षासुधारस्य संघर्षः सांप्रदायिक-जातीय-वैचारिक-विरोधे परिणमितुं न अर्हति।
अद्य आवश्यकता अस्ति यत् छात्र-आन्दोलनं स्वस्य मूललक्ष्यं प्रति पुनः प्रत्यागच्छेत्। यदि तस्य प्राथमिकता निष्पक्षपरीक्षा, पारदर्शी-नियुक्ति-प्रक्रिया, राष्ट्रीय-परीक्षा-संस्थानानां सुधारः, प्रश्नपत्र-प्रकटीकरणे कठोरदण्डः, छात्राणां भविष्यस्य सुरक्षा च भविष्यति, तर्हि व्यापकः सामाजिकसमर्थनः स्वयमेव भविष्यति। किन्तु यदि तस्य प्रमुखः सन्देशः राजनैतिक-ध्रुवीकरणेन, असम्बद्धविषयैः, उत्तेजक-घोषैः च सम्बद्धः भविष्यति, तर्हि तस्य प्रभावः प्रतिकूलः एव भविष्यति।
वस्तुतः लोकतन्त्रे सशक्तानि छात्र-आन्दोलनानि राष्ट्रस्य शक्तयः भवन्ति। तानि व्यवस्थां अधिकम् उत्तरदायिनीं कुर्वन्ति, सुधारस्य मार्गं प्रशस्तं च कुर्वन्ति। किन्तु तेषां महत्तमा सम्पद् नैतिक-अनुशासनम्, स्पष्टलक्ष्यम्, तथ्याधारितः संघर्षश्च अस्ति। अतः छात्र-आन्दोलनस्य सफलता एतेन न माप्यते यत् तेन कतिपयानि राजनैतिक-घोषवाक्यानि उच्चारितानि, अपि तु एतेन यत् तेन शिक्षाव्यवस्था कियती पारदर्शिनी, निष्पक्षा, विश्वसनीया च कृता।
स्मर्तव्यम् - यदि आन्दोलनं स्वस्य मूलोद्देश्याद् विचलति, तर्हि इतिहासः तं शिक्षासुधार-आन्दोलनरूपेण न स्मरिष्यति; अपि तु तादृशम् आन्दोलनं मन्यते, येन छात्राणां वास्तविकाः समस्याः व्यापक-राजनैतिक-कोलाहले विलुप्ताः अभवन्।
हिन्दुस्थान समाचार / Divya Ranjan