राजकीयविद्यालयेषु शनिवासरे अर्धदिवसीय-शिक्षणविषये सप्तदिनानाम् अन्तर्गतं निर्णयः भविष्यति - मुख्यमन्त्री
पटनानगरम्, २४ जुलाईमासः (हि.स.)। बिहार-विधान-परिषदि शुक्रवासरे राजकीयविद्यालयेषु शनिवासरे अर्धदिवसीय-शिक्षणव्यवस्थां प्रवर्तयितुं विषयः उत्थापितः। अस्मिन् विषये मुख्यमन्त्री सम्राट-चौधरी अवदत् यत् राज्यसर्वकारः अस्मिन् विषये सप्तदिनानाम् अन्तर्गतं
मुख्यमंत्री सम्राट चौधरी सदन में किसानों के मसले पर जवाब देते हुए


पटनानगरम्, २४ जुलाईमासः (हि.स.)। बिहार-विधान-परिषदि शुक्रवासरे राजकीयविद्यालयेषु शनिवासरे अर्धदिवसीय-शिक्षणव्यवस्थां प्रवर्तयितुं विषयः उत्थापितः। अस्मिन् विषये मुख्यमन्त्री सम्राट-चौधरी अवदत् यत् राज्यसर्वकारः अस्मिन् विषये सप्तदिनानाम् अन्तर्गतं निर्णयं करिष्यति तथा अन्तिमनिर्णयात् पूर्वं शिक्षकाणां, विद्यार्थिनां तथा अन्येषां सम्बद्धपक्षाणां विचारा: स्वीकृताः भविष्यन्ति।

प्रश्नकाले विधानपार्षदौ नवलकिशोर-यादवः, संजीव-सिंहः तथा जीवन-कुमारः सर्वकारम् अपृच्छन् यत् राजकीयविद्यालयेषु शनिवासरे अर्धदिवसीय-शिक्षणव्यवस्था कदाप्रभृति: प्रवर्तिष्यते। अस्मिन् मुख्यमन्त्री सदनम् आश्वासयन् अवदत् यत् सर्वकारः अस्मिन् विषये गम्भीरतया विचारं करोति तथा शीघ्रमेव स्पष्टः निर्णयः क्रियते।

मुख्यमन्त्री अवदत् यत् अस्मिन् विषये नवीन-शिक्षा-नीतेः प्रावधानानि अपि ध्याने धारयिष्यन्ते। सः उक्तवान् यत् सर्वकारः शीघ्रमेव सभाम् आयोजयित्वा सर्वेषां सम्बद्धपक्षाणां विचारान् विचरिष्यति, येन विद्यार्थिनां हिताय तथा शिक्षाव्यवस्थायाः अधिकसुदृढीकरणाय उपयुक्तः निर्णयः स्वीकर्तुं शक्येत।

तेन उक्तं यत् सर्वकारस्य उद्देश्यं केवलं विद्यालयानां समये परिवर्तनं कर्तुमेव न, अपितु विद्यार्थिभ्यः गुणवत्तापूर्णां शिक्षां प्रदातुम् अस्ति। अतः कस्यापि निर्णयस्य पूर्वं सर्वेषां पक्षाणां गम्भीरतया अध्ययनं करिष्यते। शिक्षकाणां विद्यार्थिनां च मतम् अपि अस्याः प्रक्रियायाः महत्त्वपूर्णः भागः भविष्यति।

मुख्यमन्त्रिणः वक्तव्यस्य अनन्तरं मन्यते यत् शिक्षाविभागः शीघ्रमेव अस्मिन् विषये सभाम् आयोजयिष्यति। तस्यां सभायां विद्यालयानां वर्तमानव्यवस्था, विद्यार्थिनां सुविधा, शिक्षकाणां सुझावाः तथा शनिवासरे शिक्षणस्य शैक्षणिकप्रभावस्य मूल्याङ्कनं करिष्यते। तदाधारेण सर्वकारः अन्तिमनिर्णयं करिष्यति।

उल्लेखनीयं यत् बिहारसर्वकारः राजकीयविद्यालयेषु शिक्षाव्यवस्थां सुदृढां कर्तुं निरन्तरं विविधानि सुधारात्मकानि पदानि स्वीकुर्वन्नस्ति इति प्रतिपादयति। शिक्षकाणाम् उपस्थितेः, विद्यार्थिनां नियमिताध्ययनस्य तथा शैक्षणिकगुणवत्तायाः उन्नयनस्य प्रयत्नानां मध्ये इदानीं शनिवासरे अर्धदिवसीय-शिक्षणव्यवस्थाया: अपि विषयः सर्वकारस्य विचाराधीनः अस्ति। मुख्यमन्त्रिणः वक्तव्यात् स्पष्टं भवति यत् अस्मिन् सम्बन्धे अन्तिमनिर्णयः अद्यापि न कृतः, किन्तु अग्रिमेषु सप्तदिनेषु सर्वकारः स्वकीयम् अन्तिममतं स्पष्टं करिष्यति।

Hindusthan Samachar / Divya Ranjan