केन्द्रसर्वकारो यूनां भविष्यसुरक्षायै पूर्णः प्रतिबद्धः - मुख्यमंत्री डॉ. यादवः
भोपालम्, 24 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहन यादव उक्तवान् यत् केन्द्रीयसर्वकारः यूनां भविष्यसुरक्षायै पूर्णतया प्रतिबद्धः अस्ति। सर्वकारः छात्राणां हिताय निरन्तरं कार्यं करोति। मुख्यमन्त्री डा. यादवः शुक्रवासरे सामाजिकसञ्च
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालम्, 24 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डा. मोहन यादव उक्तवान् यत् केन्द्रीयसर्वकारः यूनां भविष्यसुरक्षायै पूर्णतया प्रतिबद्धः अस्ति। सर्वकारः छात्राणां हिताय निरन्तरं कार्यं करोति।

मुख्यमन्त्री डा. यादवः शुक्रवासरे सामाजिकसञ्चारमाध्यमे एक्स इत्यत्र प्रकाशिते वक्तव्ये उक्तवान् यत् गुरुग्रामस्थे मेदान्ता चिकित्सालये केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जेपी नड्डा तथा केन्द्रीयराज्यमन्त्री डा. जितेन्द्र सिंह सोनम वाङ्चुकं समभेत्य विद्यार्थिसम्बद्धविषयेषु सर्वकारस्य प्रयत्नो दृष्टिकोणः तथा भावियोजनानां रूपरेखा अवगतवन्तौ। सकारात्मकसार्थकसंवादानन्तरं वाङ्चुकः स्वस्य अनशनस्य समापनं कर्तुं निर्णयम् अकरोत्।

सः उक्तवान् यत् प्रधानमन्त्रिणो नरेन्द्र मोदिनो नेतृत्वे केन्द्रीयसर्वकारः युवानां भविष्यसुरक्षायै पूर्णतया प्रतिबद्धः अस्ति। प्रश्नपत्रप्रस्रवणादिविषयेषु कठोरकार्यवाही परीक्षा प्रणाली पारदर्शिता विश्वसनीयता च अधिकं सुदृढीकर्तुं तथा प्रत्येकस्य विद्यार्थिनः हितरक्षणाय निरन्तरम् आवश्यकपदानि क्रियमाणानि सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani