Enter your Email Address to subscribe to our newsletters

२५ जुलै इत्यस्य दिवसस्य इतिहासः
चिकित्साविज्ञानस्य इतिहासे २५ जुलै इत्ययं दिवसः ऐतिहासिकसिद्ध्याः प्रतीकत्वेन स्मर्यते। अस्मिन्नेव दिवसे १९७८ तमे वर्षे इङ्ग्लण्डदेशस्य ओल्डहैम-नगरे जगतः प्रथमः परखनलीशिशुः (आईवीएफ–इन विट्रो फर्टिलाइजेशन-प्रविध्या जातः) लुई ब्राउन नाम शिशुः अजायत। एतेन प्रजननचिकित्साक्षेत्रे नवीनस्य युगस्य प्रारम्भः अभवत्।
प्रायः २.६ किलोग्राम-भारयुक्तस्य अस्य शिशोः जन्म ओल्डहैम जनरल चिकित्सालये अभवत्। एषा सफलता ब्रिटिशवैज्ञानिकस्य डॉ. रॉबर्ट एडवर्ड्स तथा स्त्रीरोगविशेषज्ञस्य डॉ. पैट्रिक स्टेप्टो इत्येतयोः दीर्घकालीनस्य अनुसंधानस्य परिश्रमस्य च फलम् आसीत्। अनन्तरं डॉ. रॉबर्ट एडवर्ड्स महोदयः अस्य योगदानस्य कृते २०१० तमे वर्षे चिकित्साशास्त्रे नोबेलपुरस्कारेण सम्मानितः अभवत्।
लुई ब्राउनस्य जन्मना तेषां लक्षशः दम्पतीनां जीवने आशा समजायत ये स्वाभाविकरीत्या सन्तानप्राप्तौ असमर्थाः आसन्। तदनन्तरं केवलं ब्रिटने एव न, अपितु विश्वस्य बहुषु देशेषु अपि आईवीएफ-प्रविधेः प्रति जनानाम् आकर्षणम् अतिवर्धितम्।
अद्य भारतसहिते विश्वस्य अधिकांशदेशेषु आईवीएफ-प्रविधिः व्यापकतया प्रयुज्यते। आधुनिकचिकित्सायाः एषा महान् उपलब्धिः अद्यावधि लक्षशः निःसन्तानदम्पतीनां मातृत्वपितृत्वसौख्यस्य साधिका अभवत् तथा प्रजननचिकित्साक्षेत्रस्य महत्त्वपूर्णासु उपलब्धिषु अन्यतमा मन्यते।
महत्त्वपूर्णाः घटनाः
• १६८९ — फ्रान्सदेशेन इङ्ग्लण्डदेशस्य विरुद्धं युद्धस्य घोषणा कृता।
• १८१३ — भारते प्रथमवारं कलकत्तानगरे नौकास्पर्धा आयोजिता।
• १८३७ — वैद्युततारसन्देशप्रणाल्याः प्रथमं सफलप्रदर्शनम् अभवत्।
• १८५४ — वाल्टर हण्ट इत्यस्मै प्रथमस्य कागजनिर्मित-कण्ठपट्टस्य अमेरिकी-पेटेण्टः प्राप्तः।
• १९४३ — इटलीदेशस्य तानाशाहः बेनिटो मुसोलिनी सत्तां त्यक्तवान्।
• १९४८ — आस्ट्रेलियादेशस्य क्रिकेटदलम् भारतीयदलस्य विरुद्धं परीक्षाक्रीडायां महत्तमं लक्ष्यं साधयित्वा अभिलेखं स्थापितवान्।
• १९६३ — अमेरिका, रूस तथा ब्रिटेन इत्येते राष्ट्राः परमाणुपरीक्षणनिषेधसन्धौ हस्ताक्षरं कृतवन्तः।
• १९७८ — ओल्डहैम-नगरे जगतः प्रथमः परखनलीशिशुः अजायत।
• १९९४ — जार्डनदेशस्य शाह हुसैन तथा इस्रायलदेशस्य प्रधानमन्त्री यित्जाक रॉबिन वाशिङ्गटन-नगरे ऐतिहासिकघोषणापत्रे हस्ताक्षरं कृतवन्तौ।
• १९९४ — चन्द्रे मानवपदार्पणस्य रजतजयन्ती आचरिता।
• २००० — एयर फ्रान्सस्य कॉनकार्ड-विमानस्य दुर्घटनायां ११३ जनाः मृताः।
• २००१ — हमजाह हज इण्डोनेशियादेशस्य उपराष्ट्रपतित्वं प्राप्तवान्।
• २००४ — पाकिस्तानदेशस्य परमाणुवैज्ञानिकस्य अब्दुल कादिर खानस्य त्रयः सहयोगिनः मुक्ताः।
• २००७ — प्रतिभा पाटिल भारतस्य द्वादशराष्ट्रपतित्वेन शपथं गृहीतवती, सा भारतस्य प्रथमा महिला-राष्ट्रपतिः अभवत्।
• २००८ — उत्तरपूर्व-इराके आत्मघातिविस्फोटे अष्ट जनाः मृताः।
• २०१७ — गुजरातराज्ये महाप्लावने सप्तत्यधिकाः जनाः मृताः।
जन्मानि
• १८९४ — परशुराम चतुर्वेदी, विद्वान् शोधकर्ता समीक्षकः।
• १९२० — गोविन्द नारायण सिंह, मध्यप्रदेशस्य भूतपूर्वः मुख्यमन्त्री।
• १९२२ — श्यामाचरण दुबे, भारतीयः समाजशास्त्री साहित्यकारश्च।
• १९२९ — सोमनाथ चटर्जी, प्रख्यातः राजनीतिज्ञः।
• १९६६ — हरसिमरत कौर बादल, भारतीयराजनीतिज्ञा।
निधनानि
• १८८० — गणेश वासुदेव जोशी, सार्वजनिककार्यकर्ता।
• १९५६ — गोदावरीश मिश्र, समाजसुधारकः साहित्यकारः सार्वजनिककार्यकर्ता च।
• १९८१ — मनमोहन सूरी, भारतीयः यान्त्रिक-अभियन्ता।
• २०१२ — बी. आर. इशारा, प्रसिद्धः चलचित्रनिर्देशकः।
Hindusthan Samachar / Dheeraj Maithani