Enter your Email Address to subscribe to our newsletters

काठमाण्डूनगरम्, जुलाईमासः २४ (हि.स.)। नेपालम् आगच्छन्तः नेपालात् बहिर्गच्छन्तश्च जनाः अधुना ५,००० अमेरिकी-डॉलर-परिमितां विदेशीयमुद्रां नगदरूपेण आनेतुं नेतुं च शक्नुवन्ति। विदेशीयमुद्रायाः नगदरूपेण आयात-निर्यातसम्बन्धिनी एषा व्यवस्था विदेशी-विनिमय-अधिनियमस्य तथा सम्पत्ति-शुद्धीकरण-निवारण-अधिनियमस्य प्रावधानानुसारं कृता अस्ति।
नेपाल-राष्ट्रधनागारेण नगद-विदेशीयमुद्रायाः विषये जुलाई १६, २०१८ तथा अप्रैल ९, २०१९ दिनाङ्कयोः अधिसूचना प्रसार्य एषा सीमा पूर्वमेव निर्धारिता आसीत्। पुनः प्रकाशितया अधिसूचनया नेपाली-भारतीय-नागरिकयोः कृते २५,००० भारतीय-रूप्यकाणां सीमा यथावत् धारिता अस्ति।वर्तमानव्यवस्थानुसारं नेपाली अथवा विदेशीयनागरिकः ५,००० अमेरिकी-डॉलर-परिमितां नगद-विदेशीयमुद्रां सीमाशुल्क-घोषणां विना नेपालम् आनेतुं शक्नोति।
केन्द्रीयधनागारेण स्पष्टतया उक्तं यत् यदि एतस्मात् अधिका धनराशिः भवति, तर्हि सीमाशुल्क-घोषणापत्रस्य पूरणं तस्य प्रमाणीकरणं च अनिवार्यम्।
नेपाल-राजपत्रे प्रकाशितानुसारं २०१६ तमवर्षस्य नवम्बर-मासस्य ९ दिनाङ्कात् पूर्वं प्रचलिताः ५०० तथा १००० भारतीय-रूप्यकाणि न केनापि व्यक्तिना व्यवहारार्थं उपयोक्तुं शक्यन्ते।
केन्द्रीयधनागारेण व्यवस्था कृता यत् नेपाली-भारतीय-नागरिकौ प्रचलितनियमानुसारं २०१६ तमवर्षस्य नवम्बर-मासस्य ९ दिनाङ्कानन्तरं प्रचलितान् २०० तथा ५०० भारतीय-रूप्यक-नोटान् प्रति-व्यक्तिः २५,००० रूप्यक-परिमितिं यावत् आनेतुं, नेतुं तथा विनिमयं कर्तुं शक्नुतः।
अतिरिक्ततया केन्द्रीयधनागारेण सूचितं यत् नेपाली-नागरिकाणां भारतं विना अन्यदेशेषु भारतीय-रूप्यकान् नेतुं, अथवा अन्यदेशात् नेपालं प्रति भारतीय-रूप्यकाणि आनेतुं अनुमतिर्नास्ति।
Hindusthan Samachar / Divya Ranjan