Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 जुलाईमासः (हि.स.)।
श्रावणस्य पवित्रमासे भगवान् शिवस्य भक्त्या परिपूर्णानां हरिद्वारात् अन्येभ्यः पवित्रतीर्थेभ्यश्च गङ्गाजलं गृहीत्वा देहलीं समागच्छतां कांवडयात्रिकाणां स्वागतार्थं तेषां सुविधार्थञ्च देहलीसर्वकारेण स्वीयाः सर्वाः सिद्धताः अन्तिमरूपेण सम्पन्नाः कृताः। मुख्यमन्त्रिणः रेखागुप्तायाः अध्यक्षतायां शुक्रवासरे सम्पन्नायां उच्चस्तरीयसमीक्षोपवेशने कांवडयात्रां सुगमां, सुरक्षितां, सुव्यवस्थितां भक्तिभावसमन्वितां च कर्तुं विविधविभागानां सिद्धतायाः विस्तृतसमीक्षा कृता।
देहलीसचिवालये सम्पन्ने उपवेशने मुख्यमन्त्री रेखागुप्ता अवदत् यत् कांवडयात्रा सामाजिकैक्यस्य सांस्कृतिकविरासतायाश्च जीवन्तं प्रतीकम् अस्ति। श्रावणमासे यदा लक्षशः शिवभक्ताः “हर हर महादेव”, “बोल बम” इति जयघोषैः सह देहल्याः मार्गेषु गच्छन्ति तदा सम्पूर्णं वातावरणं श्रद्धया भक्त्या च परिपूर्णं भवति। देहलीसर्वकारेण राजधानीं प्रविशन्तं प्रत्येकं कांवडयात्रिकं सम्मानेन, सुरक्षया तथा उत्तमसुविधाभिः सत्कर्तुं सर्वाः व्यवस्थाः सम्पन्नाः कृताः।
मुख्यमन्त्री रेखागुप्ता अवदत् यत् देहलीसर्वकारस्य सङ्कल्पः अस्ति यत् राजधानीम् आगच्छन् प्रत्येकः शिवभक्तः स्वं सुरक्षितं, सम्मानितं, आत्मीयतया परिवेष्टितं च अनुभवेत्। सा अधिकारिणः सम्बन्धितसंस्थाश्च निर्दिश्य उक्तवती यत् कांवडयात्रायाः व्यवस्थासु सेवाभावः केन्द्रे स्थापनीयः तथा परस्परसमन्वयेन कार्यं करणीयम्।
मुख्यमन्त्री अवदत् यत् कांवडयात्रिकाणां स्वागतार्थं देहल्याः प्रमुखमार्गेषु प्रवेशद्वारेषु च स्वागततोरणानि निर्मास्यन्ते। श्रद्धालूनां पुष्पवृष्ट्या स्वागतस्य अपि व्यवस्था भविष्यति। मुख्यमन्त्री स्वयं देहल्याः विभिन्नप्रदेशान् गत्वा शिवभक्तकांवडयात्रिकाणां स्वागतं करिष्यति। सा अवदत् यत् भगवानः शिवस्य भक्तानां प्रति देहलीनिवासिनां श्रद्धा सेवाभावश्च सदा अद्भुतः आसीत्। अस्मिन् वर्षेऽपि सर्वकारः सामान्यजनाश्च संयुक्तरूपेण कांवडयात्रां श्रद्धायाः, सेवायाः, आतिथ्यस्य च अविस्मरणीयं पर्व करिष्यन्ति।
सा अवदत् यत् कांवडसमितीनां कृते आवश्यकानुमतिसुविधासम्बद्धप्रक्रियाणां सरलीकरणार्थं एकद्वारप्रणाली व्यवस्थितास्ति। सर्वकारस्य उद्देश्यं यत् कांवडसमितयः विविधविभागेषु पुनःपुनः न गच्छेयुः तथा ताभ्यः आवश्यकसहयोगः समयबद्धरूपेण प्रदीयेत। मुख्यमन्त्री अधिकारिणः निर्दिष्टवती यत् कांवडसमितिभिः सह सुदृढः समन्वयः स्थापनीयः तथा तासां वास्तविकावश्यकतानुसारं सर्वथा साहाय्यं प्रदेयम्, येन शिविरेषु आगच्छन्तः श्रद्धालवः उत्कृष्टसुविधाः प्राप्नुयुः।
मुख्यमन्त्री रेखागुप्ता कांवडशिविरेषु स्वच्छतां सर्वोच्चप्राथमिकतारूपेण स्थापयितुं निर्देशान् अददात्। सा अवदत् यत् शिविरेषु चतुर्विंशतिघण्टापर्यन्तं स्वच्छताव्यवस्था सुनिश्चिता भवेत् तथा पर्याप्तसंख्यायां स्वच्छताकर्मिणः नियुक्ताः भवेयुः। सञ्चलनशीलशौचालयानां संख्यां वर्धयित्वा तेषां गुणवत्तायाः, नियमितस्वच्छतायाः, सम्यग्रक्षणस्य च विषये विशेषध्यानं दातव्यम्। सा स्पष्टतया निर्दिष्टवती यत् कांवडशिविरेषु स्थाप्यमानाः सञ्चलनशीलशौचालयाः उच्चगुणवत्तायुक्ताः भवेयुः तथा तेषां स्वच्छतारक्षणयोः उत्तरदायित्वं सम्बन्धितसंस्थायै स्पष्टतया निर्दिश्यताम्। कस्मिंश्चिदपि स्तरस्य प्रमादः न सह्यः भविष्यति।
कांवडयात्रिकाणां स्वास्थ्यचिकित्सासुविधानां विषयेऽपि उपवेशने विस्तृतचर्चा अभवत्। मुख्यमन्त्री स्वास्थ्यविभागं निर्दिष्टवती यत् शिविरेषु पर्याप्ताः चिकित्सासुविधाः उपलब्धाः क्रियन्ताम्। चिकित्सकानां स्वास्थ्यकर्मिणां च पृथक्पृथक्पालिषु नियुक्तिः सुनिश्चितीक्रियताम्, येन श्रद्धालवः दिवा रात्रौ च चिकित्सासाहाय्यं प्राप्नुयुः। तेन सह पर्याप्तमात्रायां शुद्धपेयजलम्, अविच्छिन्नविद्युदुपलब्धिः तथा वर्षाकाले जलावरोधनिवारणार्थं पूर्वमेव प्रभाविणी व्यवस्था सुनिश्चितीक्रियतामिति निर्देशाः अपि प्रदत्ताः।
उपवेशने कांवडमार्गेषु यातायातव्यवस्थायाः सुरक्षाव्यवस्थायाश्च गम्भीरसमीक्षा कृता। मुख्यमन्त्री निर्दिष्टवती यत् अस्मिन् विषये देहलीपुलिसेन यातायातपुलिसेन च सह समन्वयं कृत्वा अवरोधकस्थापनम्, मार्गपरिवर्तनम्, पीसीआरवाहननियोजनम्, दुर्घटनानिवारणसम्बद्धाः सर्वाः व्यवस्थाः समयात् पूर्वमेव सम्पन्नाः क्रियन्ताम्। सा अवदत् यत् प्रमुखप्रवेशमार्गेषु यातायातव्यवस्था एवं भवेत् यत् कांवडयात्रिकाणां धार्मिकयात्रा निर्विघ्नं प्रवर्तेत तथा सामान्यनागरिकाः अपि असुविधां न अनुभवेयुः।
समीक्षोपवेशने देहलीसर्वकारस्य कलासंस्कृतिमन्त्री तथा कांवडसमित्याः अध्यक्षः कपिलमिश्रः, समितेः सदस्याः विधायकाः अजयमहावरः, अनिलशर्मा, करनैलसिंहः, संजयगोयलः, उमङ्गबजाजः तथा विविधविभागानां वरिष्ठाधिकारिणः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani