पंढरपुर वारी परंपरातः सामाजिकैकतायास्सामूहिक चेतनायाश्च संचारो भवति - डॉ जोशी
नवदिल्ली, 24 जुलाईमासः (हि.स.)।इन्दिरागान्धीराष्ट्रियकलाकेन्द्रस्य सदस्यसचिवः डा. सच्चिदानन्द जोशी उक्तवान् यत् अद्वितीया पंढरपुरवारीपरम्परा सप्तशतवर्षेभ्यः सांस्कृतिकचरित्रं सामाजिकसमरसतां सामूहिकचेतनां च सुदृढां करोति। डा. जोशी देहलीस्थिते इन्दिर
आईजीएनसीए के सदस्य सचिव डॉ. सच्चिदानंद जोशी के साथ अन्य लोग मौजूद।


नवदिल्ली, 24 जुलाईमासः (हि.स.)।इन्दिरागान्धीराष्ट्रियकलाकेन्द्रस्य सदस्यसचिवः डा. सच्चिदानन्द जोशी उक्तवान् यत् अद्वितीया पंढरपुरवारीपरम्परा सप्तशतवर्षेभ्यः सांस्कृतिकचरित्रं सामाजिकसमरसतां सामूहिकचेतनां च सुदृढां करोति। डा. जोशी देहलीस्थिते इन्दिरागान्धीराष्ट्रियकलाकेन्द्रे आयोजिते पंढरपुरवारी सप्तशतवर्षप्राचीना परम्परा इति विषयके संवादप्रस्तुतिकार्यक्रमे एतद् उक्तवान्। एषा भारतस्य सप्तशताधिकवर्षप्राचीना जीवन्तसांस्कृतिकाध्यात्मिकपरम्परासु एका अस्ति। अस्य कार्यक्रमस्य उद्देश्यः अनेकदेशानां राजनयिकान् सांस्कृतिकप्रतिनिधींश्च वारीपरम्परायाः सांस्कृतिकसामाजिकसभ्यतागतमहत्त्वेन परिचाययितुम् आसीत्। एषा श्रद्धा समता सामाजिकसौहार्दम् अनुशासनं सेवा च इत्यादिमूल्येषु आधारिताऽस्ति। सः उक्तवान् यत् भारतः अनेकानां प्राचीनतीर्थयात्राणां सांस्कृतिकपरम्पराणां च देशः अस्ति। पंढरपुरवारी अपि भारतीयसंस्कृतेः तादृशी अद्वितीया परम्परा अस्ति या सप्तशतवर्षेभ्यः भारतीयसमाजस्य सांस्कृतिकचरित्रं सामाजिकसमरसतां भक्तिं सामूहिकचेतनां च सुदृढीकर्तुं महत्त्वपूर्णं योगदानं दत्तवती।

भारतीयजनतापक्षस्य विदेशकार्यमण्डलस्य प्रमुखः विजय चौथाईवाले उक्तवान् यत् विदेशीयाक्रमणानां सामाजिकास्थिरतायाश्च काले सन्तज्ञानेश्वरः सन्तनामदेवः सन्तएकनाथः सन्ततुकारामश्च इत्यादयः सन्तः भक्त्याः आन्दोलनस्य माध्यमेन समाजे आत्मविश्वासं नैतिकबलम् आध्यात्मिकचेतनां च प्रसारितवन्तः। अस्मिन्नवसरे वैभव डाङ्गे विरचितस्य पंढरपुरवारीविषयकस्य एकग्रन्थस्य लोकार्पणम् अपि अभवत्। सः वारीम् केवलं धार्मिकयात्रारूपेण न वर्णयित्वा तां सप्तशतवर्षेभ्यः प्रवर्तमानां जीवन्तसभ्यतापरम्परारूपेण निरूपितवान् या समतां विनयं सेवाम् अनुशासनं सामूहिकसहभागितां भक्तिं च इति मूल्यानि पीढीभ्यः पीढीं प्रति वहन्ती आगता। गतनववर्षेभ्यः स्वयं वारीयात्रायां सहभागित्वस्य स्वानुभवान् कथयन् डाङ्गे उक्तवान् यत् वारी मनुष्यं केवलम् ईश्वरस्य समीपं न नयति अपि तु तम् अधिकं संवेदनशीलं सेवाभावयुक्तं मानवीयं च करोति।

अनेन आयोजनेन भारतस्य विविधदेशानां राजनयिकसमुदायस्य च मध्ये सांस्कृतिकसंवादः अधिकं सुदृढः अभवत् तथा भारतस्य समृद्धसांस्कृतिकविरासतायाः एका अनन्या परम्परा वैश्विकसमुदायस्य पुरतः प्रभावपूर्णतया प्रस्तुता। अस्मिन्नवसरे रूस सूरीनाम फिलीपीन्स अङ्गोला मॉरीशस थाईलैण्ड अमेरिका मोल्दोवा ऑस्ट्रेलिया भूटान इण्डोनेशिया ब्राजील इत्यादिदेशानां राजनयिकाः सांस्कृतिकप्रतिनिधयश्च सहभागिनः अभवन्।

उल्लेखनीयम् अस्ति यत् पंढरपुरवारी महाराष्ट्रस्य सप्तशताधिकवर्षप्राचीना अद्वितीया आध्यात्मिकसांस्कृतिकपदयात्रापरम्परा अस्ति यस्याम् लक्षशः भक्ताः वारकरी आषाढीएकादश्यां भगवान् विट्ठलस्य दर्शनार्थं पदयात्रां कुर्वन्ति। अस्यां यात्रायां सन्तज्ञानेश्वरस्य सन्ततुकारामस्य च पादुकाः पालकीषु स्थाप्य नीयन्ते।

-----------

Hindusthan Samachar / Dheeraj Maithani