Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, २४ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपालमहोदया आनन्दीबेन-पटेलः शुक्रवासरे लखनऊ-स्थिते जनभवने अवस्थितस्य आदर्श-माध्यमिक-विद्यालयस्य विद्यार्थिभ्यः विद्यालयीयपरिधानं वितरितवती। एतत् विद्यालयीयपरिधानं राज्यपालमहोदयायाः प्रेरणया प्रतापगढ-लोकसभासांसदेन एस.पी.सिंह-पटेल महोदयया सौजन्येन उपलब्धीकृतः।
उल्लेखनीयम् अस्ति यत् गतस्य १ जुलाईमासे अपि विद्यालयस्य १०९ विद्यार्थिभ्यः द्वे-द्वे विद्यालयीयपरिधानयुगले वितरिते आस्ताम्। विद्यार्थिनां चयनं तेषां नियमित-विद्यालयोपस्थितेः आधारेण कृतम्, येन अन्येऽपि विद्यार्थिनः नियमितरूपेण विद्यालयम् आगन्तुं प्रेरिताः भवेयुः। अद्यतनं विद्यालयीयवेशवितरणम् तस्यैव उपक्रमस्य अग्रिमा शृङ्खला अस्ति।राज्यपालमहोदयायाः प्रयत्नेन विद्यालयस्य सर्वेभ्यः विद्यार्थिभ्यः चरणबद्धरीत्या विद्यालयीयपरिधानं प्रदीयते। अस्य उपक्रमस्य उद्देश्यं विद्यार्थिनः शिक्षया निरन्तरं सम्बद्धान् स्थापयितुम्, नियमित-विद्यालयोपस्थितिं प्रोत्साहयितुं तथा आर्थिकैः सामाजिकैर्वा कारणैः कश्चन बालकः शिक्षायाः वञ्चितः मा भवतु इति सुनिश्चितीकर्तुं च अस्ति।
राज्यपालमहोदयायाः मार्गदर्शने जन-प्रतिनिधीनां, सामाजिकसंस्थानां तथा समाजस्य विभिन्नवर्गाणां सहयोगेन शिक्षा-पोषण-स्वास्थ्य-बालविकास-सम्बद्धाः अनेके जनकल्याणकार्यक्रमाः सञ्चाल्यन्ते। एतेषां प्रयत्नानाम् उद्देश्यं बालकानां सर्वाङ्गीण-विकासाय अनुकूलं वातावरणं निर्मातुं तथा तान् गुणवत्तायुक्तया शिक्षया संयोजयितुं च अस्ति।
Hindusthan Samachar / Divya Ranjan