भारत-इजरायलदेशयोः प्रस्तावितायाः मुक्तव्यापार-सन्धेः द्वितीयं वार्ताचक्रं सम्पन्नम्
नवदेहली, जुलाईमासः २४ (हि.स.)। भारत-इजरायलदेशयोः मध्ये प्रस्तावितायाः मुक्तव्यापार-सन्धेः कृते वार्तायाः द्वितीयः चरणः सम्पन्नः। उभयदेशयोः मध्ये एषा वार्ता जुलाई २० तः २३ पर्यन्तं नवदेहल्याः वाणिज्यभवने अभवत्। अस्मिन् अवसरे उभयपक्षाभ्यां सन्तुलिता
भारत औार इजराइल के लोगो का प्रतीकात्मक चित्र


नवदेहली, जुलाईमासः २४ (हि.स.)। भारत-इजरायलदेशयोः मध्ये प्रस्तावितायाः मुक्तव्यापार-सन्धेः कृते वार्तायाः द्वितीयः चरणः सम्पन्नः। उभयदेशयोः मध्ये एषा वार्ता जुलाई २० तः २३ पर्यन्तं नवदेहल्याः वाणिज्यभवने अभवत्। अस्मिन् अवसरे उभयपक्षाभ्यां सन्तुलितायाः व्यापकायाश्च सन्धेः कृते सर्वेषु विषयेषु विस्तरेण चर्चा कृता।

चतुर्दिवसात्मीक्याम् अस्यां वार्तायां प्रस्तावित-सन्धेः सर्वे पक्षाः विस्तरेण परीक्षिताः। उभयपक्षौ सन्तुलितां, व्यापकां, उभयदेशहितकारिणीं च मुक्तव्यापार-सन्धिं सिद्धुं दिशि निरन्तरं प्रगतिं कुर्वन्तौ स्तः।

मन्त्रालयेन उक्तं यत् नवम्बर-मासे २०२५ तमे वर्षे हस्ताक्षरितः सन्दर्भ-नियमः उभयदेशयोः द्विपक्षीय-व्यापारस्य, आर्थिक-सहकार्यस्य, समग्र-आर्थिक-सहभागस्य च सुदृढीकरणाय निर्दिष्टेषु क्षेत्रेषु वार्तालापस्य व्यवस्थितं रूपरेखां प्रददाति।

उभयपक्षाभ्यां शीघ्रमेव सन्तुलितायाः व्यापकायाश्च उभयदेशहितकारिण्याः मुक्तव्यापार-सन्धेः सम्पन्नतायै स्वसंकल्पः पुनः प्रतिपादितः। तया भारत-इजरायलयोः द्विपक्षीय-व्यापारः, निवेशः, आर्थिक-सम्बन्धाश्च अधिकं सुदृढाः भविष्यन्ति।

वित्तवर्षे २०२५–२६ भारत-इजरायलयोः मध्ये कुल-द्विपक्षीय-व्यापारः ३.९३ अब्ज-अमेरिकी-डॉलर-परिमितः आसीत्। उभयदेशयोः अनेकक्षेत्रेषु परस्पर-पूरकत्वस्य सुदृढाः सम्भावनाः सन्ति। प्रस्ताविता मुक्तव्यापार-सन्धिः द्विपक्षीय-व्यापारस्य, निवेशस्य, आर्थिक-एकीकरणस्य च अधिकवृद्धेः महत्त्वपूर्णान् अवसरान् प्रदास्यतीति अपेक्ष्यते।

Hindusthan Samachar / Divya Ranjan