Enter your Email Address to subscribe to our newsletters


सुपौलम्, 24 जुलाईमासः (हि.स.)।
सीमासुरक्षाबलस्य पञ्चचत्वारिंशदुत्तरवाहिन्याः वीरपुरस्थिते मुख्यालये शुक्रवासरे भावपूर्णः सम्मानविदायसमारोहः समायोजितः। अस्मिन् अवसरे अष्टवर्षपर्यन्तं उत्कृष्टया समर्पितया च सेवया प्रसिद्धा प्रशिक्षिता शुनी क्यूटी सम्मानपूर्वकं सेवानिवृत्ता अभवत्।
स्वस्य सेवाकाले क्यूटी इयं वाहिन्याः बहुषु महत्त्वपूर्णेषु सुरक्षाकार्येषु, परिचालनकार्येषु, अन्वेषणाभियानेषु च उल्लेखनीयं योगदानम् अददात्। तस्याः निष्ठा, दक्षता, साहसं च संस्मरन्तः वाहिन्याः अधिकारिणः जवानाश्च करतालध्वनिना सह तस्यै भावपूर्णां विदायाम् अददुः तथा च तस्याः स्वस्थसुखमयजीवनस्य शुभकामनाः अपि प्रायच्छन्।
समारोहे पञ्चचत्वारिंशदुत्तरवाहिन्याः कमाण्डेण्टः गौरवसिंहः सेवानिवृत्तेः अनन्तरं निर्धारितप्रक्रियानुसारं क्यूटी इमां सुपौलजनपदस्य बेलहीग्रामनिवासिने रविशङ्करप्रसादाय विधिवत् दत्तवान्।
अस्मिन् अवसरे कमाण्डेण्टः उक्तवान् यत् क्यूटी स्वस्य सम्पूर्णसेवाकाले कर्तव्यनिष्ठया, अनुशासनेन, उत्कृष्टकार्यैश्च वाहिन्याः कार्यकुशलतां सुदृढीकृतवती। सा सदा सीमासुरक्षाबलपरिवारस्य अभिन्नः अंशः भविष्यति।
अस्यां सभायां द्वितीयकमानाधिकारी जगदीशकुमारशर्मा, उपकमाण्डेण्टौ हरजीतरावः तथा सुमनसौरभः, पशुचिकित्सकः डॉ. सूर्यप्रतापसिंहः, किसानभूषणपुरस्कारसम्मानितः भिखारीमेहतः, माध्यमप्रतिनिधयः, वाहिन्याः अन्ये अधिकारिणः जवानाश्च उपस्थिताः आसन्।
कार्यक्रमस्य समापनावसरे सर्वे अधिकारिणः जवानाश्च क्यूटी इमां ससम्मानं विदायां प्रदाय तस्याः उज्ज्वलस्य, सुरक्षितस्य, सुखमयस्य च जीवनस्य हार्दिकाः शुभकामनाः प्रायच्छन्।
Hindusthan Samachar / Dheeraj Maithani