समाजे संगठनस्य,समरसतायाः राष्ट्रभावस्य जागरणमेव आरएसएस इत्यस्य संघठनस्य उद्धेश्यम् : वी.भागय्या
रांची, 24 जुलाईमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य वरिष्ठप्रचारकः अखिलभारतीयकार्यकारिणीसदस्यः वी. भगय्या उक्तवान् यत् समाजे संगठनं समरसता राष्ट्रभावश्च जागरयितुम् एव राष्ट्रियस्वयंसेवकसंघस्य उद्देश्यम् अस्ति। सः राञ्चीमहानगरस्य विक्रमादित्यनगरस
कार्यक्रम की तस्वीर


कार्यक्रम में उपस्थित लोग


कार्यक्रम में उपस्थित लोग


रांची, 24 जुलाईमासः (हि.स.)। राष्ट्रियस्वयंसेवकसंघस्य वरिष्ठप्रचारकः अखिलभारतीयकार्यकारिणीसदस्यः वी. भगय्या उक्तवान् यत् समाजे संगठनं समरसता राष्ट्रभावश्च जागरयितुम् एव राष्ट्रियस्वयंसेवकसंघस्य उद्देश्यम् अस्ति।

सः राञ्चीमहानगरस्य विक्रमादित्यनगरस्य पक्षतः सरलाबिर्लाविश्वविद्यालयस्य विशालसभागारे शुक्रवासरे आयोजिते युवासंवादकार्यक्रमे युवानः सम्बोधयन् एताः उक्तीः अवदत्।

सः युवानः आहूतवान् यत् ते केवलं व्यवसायनिर्माणे व्यक्तिगतप्रगत्यां च सीमिताः न भवन्तु अपितु राष्ट्रस्य प्रति स्वदायित्वानाम् अपि निर्वहनं कुर्वन्तु। वर्तमानकाले राष्ट्रस्य एकताम् अखण्डतां च प्रभावितुं समर्थाः अनेकाः वैचारिकभ्रमाः चुनौतयः च सन्ति। तादृशे काले युवभिः सजगैः जागरूकैः राष्ट्रहिते समर्पितैः च भूत्वा कार्यं करणीयम्।

सः संघस्य शताब्दीवर्षस्य अवसरे देशव्यापिनः जनसम्पर्काभियानस्य तथा संघस्य मूलविचारधारायाः विषये विस्तरेण प्रकाशम् अकरोत्।

सः राष्ट्रियस्वयंसेवकसंघस्य संस्थापकस्य डा. केशवबलिराम हेडगेवारस्य जीवनसंघर्षस्य उल्लेखं कृत्वा उक्तवान् यत् बाल्ये एव मातापित्रोः छाया नष्टा अभवत् तथा अत्यन्ताभावपूर्णपरिस्थितिषु अपि तेन राष्ट्रसेवायाः मार्गः स्वीकृतः। नवमकक्षायां वन्देमातरम् आन्दोलनस्य सह सहभागित्वात् तं विद्यालयात् निष्कासितवन्तः। कलकत्तानगरात् एमबीबीएस शिक्षां प्रथमश्रेण्यां सम्पन्नां कृत्वापि तेन बर्मादेशे उच्चसर्वकारीयपदस्य प्रस्तावः अस्वीकृतः तथा सम्पूर्णजीवनं स्वतन्त्रतान्दोलने राष्ट्रनिर्माणे च समर्पितम्।

सः उक्तवान् यत् डा. हेडगेवारेण गम्भीरचिन्तनं कृतम् यत् मुगलाः आङ्ग्लशासकाः च इव विदेशीयाक्रमणकारिणः भारते शासनं कर्तुं कथं सफलाः अभवन्। तस्य मते स्वकीयराष्ट्रियायाः अस्मितायाः विस्मरणम् समाजस्य असंगठितत्वम् आन्तरिकविषमताः च अस्य प्रमुखदुर्बलताः आसन्। एतासां न्यूनतानां निवारणाय समाजे संगठनं समरसता राष्ट्रभावश्च जागरयितुम् उद्दिश्य १९२५ तमे वर्षे राष्ट्रीयस्वयंसेवकसंघस्य स्थापना अभवत्।

राष्ट्रियस्वयंसेवकसंघस्य पूर्वसहसरकार्यवाहः वी. भगय्या उक्तवान् यत् भारते भाषाणां खाद्यपद्धतीनां वेशभूषाणां पूजापद्धतीनां च विविधता अस्माकं सांस्कृतिकसमृद्धेः प्रतीकः अस्ति। किन्तु अस्माकं महत्तमा मूलपरिचयः अयं यत् वयं सर्वे भारतमातुः सन्ततयः स्मः।

सः उक्तवान् यत् विदेशीयशासनकाले समाजं जात्या क्षेत्रेण भाषया अन्यैः आधारैः च विभक्तुं सुनियोजिताः प्रयासाः कृताः। तादृशविभाजनानाम् उपरि उत्थाय राष्ट्रियैक्यं सामाजिकसमरसतां संगठनभावं च सुदृढीकर्तुं कालस्य आवश्यकता अस्ति।

शहीदभगतसिंहस्य जीवनस्य विचाराणां च उल्लेखं कुर्वन् सः उक्तवान् यत् तस्य स्वप्नं केवलं राजनैतिकस्वातन्त्र्यपर्यन्तं सीमितं नासीत् अपितु तादृशस्य भारतस्य निर्माणम् आसीत् यत्र प्रत्येकः नागरिकः समानसम्मानं प्राप्नुयात् श्रमं कुर्वन् प्रत्येकः जनः सामाजिकप्रतिष्ठाम् आर्थिकस्वावलम्बनं च प्राप्नुयात् तथा कस्यापि आधारस्य कारणेन कस्यापि शोषणं न भवेत्।

कार्यक्रमे टाटीसिलवे तथा समीपवर्तिक्षेत्रेभ्यः सहस्राधिकाः युवविद्यार्थिनः प्राध्यापकाः अधिवक्तारः चिकित्सकाः वैज्ञानिकाः उद्यमिनः व्यवसायिनश्च उत्साहपूर्वकं सहभागिनः अभवन्।

कार्यक्रमे विक्रमादित्यनगरस्य संघचालकः शङ्कर साहू सहसंघचालकः ब्रजेश सहिताः नगरस्य सर्वे दायित्ववन्तः कार्यकर्तारः अधिकारीणश्च उपस्थिताः आसन्। कार्यक्रमस्य समापनं राष्ट्रगीतेन राष्ट्रगानेन च अभवत्। मञ्चे संघस्य वरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।---------------

Hindusthan Samachar / Dheeraj Maithani