काङ्ग्रेस-सर्वकारेण सार्धत्रिवर्षेषु हिमाचलप्रदेशः आर्थिकसङ्कटस्य प्रशासनिक-अव्यवस्थायाश्च दिशि प्रेषितः - विपिन-परमारः
धर्मशालानगरम्, २४ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेश-उपाध्यक्षः तथा सुलह-विधानसभाक्षेत्रस्य विधायकः विपिनसिंह-परमारः प्रदेशस्य काङ्ग्रेस-सर्वकारम् उद्दिश्य तीक्ष्णां आलोचनां कृत्वा अवदत् यत् सार्धत्रिवर्षेषु मुख्यमन्त्रिणः सुखविन्दरसिंह-सु
विपिन परमार।


धर्मशालानगरम्, २४ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेश-उपाध्यक्षः तथा सुलह-विधानसभाक्षेत्रस्य विधायकः विपिनसिंह-परमारः प्रदेशस्य काङ्ग्रेस-सर्वकारम् उद्दिश्य तीक्ष्णां आलोचनां कृत्वा अवदत् यत् सार्धत्रिवर्षेषु मुख्यमन्त्रिणः सुखविन्दरसिंह-सुक्खू इत्यस्य नेतृत्व-युक्तेन सर्वकारेण हिमाचलप्रदेशः विकासमार्गात् अपसार्य आर्थिक-सङ्कटस्य, प्रशासनिक-अव्यवस्थायाः तथा जनविश्वास-सङ्कटस्य दिशि नीतः। निर्वाचनात् पूर्वं महान्तः प्रतिज्ञाः कृत्वा काङ्ग्रेस-सर्वकारः अधुना स्वीयप्रतिज्ञाभ्यः विमुखः जातः, येन प्रदेशस्य सर्वः वर्गः स्वयम् उपेक्षितः इव अनुभवति।

शुक्रवासरे प्रकाशिते पत्रकार-वक्तव्ये विपिनसिंह-परमारः अवदत् यत् काङ्ग्रेस-दलेन निर्वाचनकाले महिलाभ्यः, युवभ्यः, कर्मचारिभ्यः, कृषकेभ्यः, फलोत्पादकेभ्यः, वणिजेभ्यः तथा बेरोजगारेभ्यः अनेकाः प्रत्याभूतयः प्रदत्ताः, किन्तु अद्यावधि तेषां बहव्यः प्रतिज्ञाः व्यवहारे न दृश्यन्ते। जनानां हितार्थं कार्यं करणस्य स्थाने सर्वकारः केवलं घोषणासु प्रचारे च सीमितः अभवत्।सः आरोपम् अकरोत् यत् प्रदेशस्य आर्थिकस्थितिः निरन्तरं अवनता जाता तथा सर्वकारस्य ऋणभारः निरन्तरं वर्धितः। वित्तीयप्रभावः, विकासकार्याणां मन्दगतिः, वेतनप्रदानस्य विलम्बः इत्यादिषु विषयेषु सर्वकारः निरन्तरं विपक्षस्य जनतायाश्च आलोचनाविषयः अभवत्।

परमारः अवदत् यत् जनतायाः एषा भावना अपि वर्तते यत् सर्वकारस्य सम्पूर्णं ध्यानं प्रदेशस्य विकासे न, अपितु स्वप्रियजनानां मित्राणां च लाभप्रदाने एव आसीत्। अपरतः सामान्यनागरिकाः, कर्मचारिणः, कृषकाः, युवानः, लघुवणिजश्च स्वसमस्यानां समाधानार्थं सर्वकारीयकार्यालयानां परिभ्रमणं कर्तुं विवशाः सन्ति।

सः अवदत् यत् अद्यतन-पञ्चायतीराज-निर्वाचनस्य परिणामाः काङ्ग्रेस-सर्वकाराय स्पष्टः सन्देशाः सन्ति। जनतया ग्रामे ग्रामे काङ्ग्रेस-दलस्य नीतयः अस्वीकृत्य भारतीयजनतापक्ष-समर्थित-अभ्यर्थिनां पक्षे मतदानं कृतम्। एते परिणामाः सूचयन्ति यत् प्रदेशस्य जनतायाः काङ्ग्रेस-सर्वकारस्य कार्यशैलीं प्रति सन्तोषः नास्ति तथा सा परिवर्तनम् इच्छति।

अन्ते सः अवदत् यत् २०२७ तमवर्षस्य विधानसभानिर्वाचनं हिमाचलप्रदेशस्य भविष्यस्य निर्वाचनं भविष्यति। प्रदेशस्य जनताः काङ्ग्रेस-सर्वकारस्य वादभङ्गस्य, आर्थिक-दुर्व्यवस्थापनस्य तथा जन-विरोधि-नीतीनां लोकतान्त्रिकरीत्या उत्तरं दातुं पूर्णतया सज्जाः सन्ति। भारतीय-जनतापक्षः विकासस्य, सुशासनस्य, पारदर्शितायाः तथा उत्तरदायित्वस्य विषयान् जनसामान्यस्य पुरतः स्थापयिष्यति तथा प्रदेशं पुनः विकासमार्गे नेतुं दृढसंकल्पेन जनतायाः सम्मुखम् उपस्थितो भविष्यति।

Hindusthan Samachar / Divya Ranjan