Enter your Email Address to subscribe to our newsletters

कानपुरनगरम्, २४ जुलाईमासः (हि.स.)। कानपुर-आगरा-मेट्रोयानयोः अनन्तरम् अधुना लखनऊ-मेट्रोयाने अपि राष्ट्रीय-सामान्य-गतिशीलता-पत्रकस्य सुविधा प्रारब्धा अस्ति। अस्य फलस्वरूपं यात्रिणः एकेन एव पत्रकेण विभिन्नेषु नगरेषु निर्बाधां यात्रां कर्तुं शक्नुवन्ति, येन कालस्य ऊर्जायाश्च उभयोः अपि संरक्षणं भविष्यति। एतानि वचनानि शुक्रवासरे उत्तरप्रदेश-मेट्रो-रेल-निगमस्य प्रबन्ध-निदेशकः सुशीलकुमारः उक्तवान्।
उत्तरप्रदेश-मेट्रो-रेल-निगमेन कानपुर-आगरा-मेट्रोयानयोः अनन्तरम् अधुना लखनऊ-मेट्रोयाने अपि एनसीएमसी गो-स्मार्ट-पत्रकस्य सुविधा प्रवर्तिता। अनेन सह कानपुर-मेट्रोयात्रिणः एकेन एव पत्रकेण कानपुर-लखनऊ-आगरा-मेट्रोयानेषु यात्रां कर्तुं शक्नुवन्ति। एनसीएमसी-पत्रक-धारिभ्यः त्रिषु अपि मेट्रो-जालकेषु प्रत्येकयात्रायां १० प्रतिशत-भाटक-न्यूनतायाः लाभः अपि भविष्यति। अपरञ्च देशस्य अन्येषु एनसीएमसी-सक्षमेषु मेट्रो-जालकेषु सार्वजनिक-परिवहन-सेवासु च अस्यैव पत्रकस्य उपयोगः कर्तुं शक्यते।
यूपीएमआरसी-अनुसारं प्रदेशे एनसीएमसी गो-स्मार्ट-पत्रकस्य आरम्भः प्रथमं ४ अप्रैलमासे २०२३ तमे वर्षे कानपुर-मेट्रोयानम् अभवत्। ततः मे-मासे २०२५ तमे वर्षे एषा सुविधा आगरा-मेट्रोयाने आरब्धा, अधुना लखनऊ-मेट्रोयानम् अपि अस्यां व्यवस्थायां समाविष्टम्। अनेन यूपीएमआरसी-द्वारा सञ्चालितेषु त्रिषु अपि मेट्रो-जालकेषु एकेन एव पत्रकेण निर्बाधा यात्रा सम्भविता।
परिसरः-१ इत्यस्य अन्तर्गतस्य कानपुर-सेण्ट्रल-नौबस्ता-पर्यन्तस्य अवशिष्ट-खण्डे शीघ्रं प्रारभ्यमाणां यात्रिक-सेवां दृष्ट्वा एषा सुविधा यात्रिभ्यः विशेषतया लाभप्रदा मन्यते। एनसीएमसी-पत्रकेण चिटिका-ग्रहणे १० प्रतिशत-न्यूनता लभ्यते। उदाहरणरूपेण, आईआईटी-स्थानात् कानपुर-सेण्ट्रल-पर्यन्तं सामान्यं भाटकं ४० रूप्यकाणि अस्ति, किन्तु पत्रकधारी केवलं ३६ रूप्यकाणि दास्यति।
यूपीएमआरसी-अनुसारं कानपुरतः प्रतिदिनं बहवः जनाः लखनऊ-नगरं गच्छन्ति आगच्छन्ति च। कानपुर-सेण्ट्रल-रेलवे-स्थानके मेट्रो-संयोजने उपलब्धे सति यात्रिणः नूतनां चिटिकां अक्रीत्वा तेनैव एनसीएमसी-पत्रकेण लखनऊ-मेट्रोयाने अपि यात्रां कर्तुं शक्नुवन्ति। अनेन चिटिका-क्रय-प्रक्रिया सुगमा भविष्यति तथा कालस्य अपि संरक्षणं भविष्यति।
एनसीएमसी गो-स्मार्ट-पत्रकं कानपुर-मेट्रोयानस्य सर्वेषु स्थानकेषु चिटिका-विक्रय-स्थानेषु उपलब्धम् अस्ति। १०० रूप्यक-शुल्कं दत्त्वा वैध-परिचय-पत्रस्य तथा ओटीपी-सत्यापनस्य अनन्तरं कार्डः तत्कालं प्रदीयते। अस्मिन् पत्रके न्यूनतमं १०० रूप्यकाणि तथा अधिकतमं २,००० रूप्यकाणि पर्यन्तं पुनर्भरणं कर्तुं शक्यते। पुनर्भरणस्य सुविधा चिटिका-विक्रयकेन्दर-चिटिका-विक्रय-यन्त्र-यूपीआई-अन्तर्जाल-धनागार-डेबिट्-क्रेडिट्-पत्रक-यूपीएमआरसी-जालपुटस्य तथा आधिकारिक-चलदूरभाष-अनुप्रयोगस्य माध्यमेन उपलब्धा अस्ति।
Hindusthan Samachar / Divya Ranjan