वित्त मंत्री ओपी चौधरी कॉमनवेल्थ गेम्स 2026 मध्ये भारतीय दलाय अददात् शुभकामनाम्
रायपुरम्, 24 जुलाईमासः(हि.स.)। वित्तमन्त्री ओपी चौधरी कॉमनवेल्थ गेम्स २०२६ स्पर्धासु भारतस्य प्रतिनिधित्वं कुर्वद्भ्यः सर्वेभ्यः क्रीडकभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्। वित्तमन्त्री चौधरी अवदत् यत् भारतीयाः क्रीडकाः स्वप्रतिभया
वित्त मंत्री ओपी चौधरी


रायपुरम्, 24 जुलाईमासः(हि.स.)।

वित्तमन्त्री ओपी चौधरी कॉमनवेल्थ गेम्स २०२६ स्पर्धासु भारतस्य प्रतिनिधित्वं कुर्वद्भ्यः सर्वेभ्यः क्रीडकभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्।

वित्तमन्त्री चौधरी अवदत् यत् भारतीयाः क्रीडकाः स्वप्रतिभया, अनुशासनेन, कठिनपरिश्रमेण दृढसङ्कल्पेन च विश्वक्रीडाक्षेत्रे भारतस्य कीर्तिं निरन्तरं नूतनशिखराणि प्रति नयन्ति। तस्य पूर्णविश्वासः अस्ति यत् भारतीयदलम् उत्कृष्टक्रीडाभावेन, श्रेष्ठप्रदर्शनेन, समर्पणेन च विश्वमञ्चे तिरङ्गध्वजस्य गौरवं वर्धयिष्यति। सः अवदत् यत् क्रीडकानां विजयः एव न, अपितु तेषां संघर्षः, परिश्रमः, राष्ट्राय समर्पणभावः च प्रत्येकस्य भारतीयस्य प्रेरणास्रोतः अस्ति। समस्तदेशवासिनां शुभकामनाः विश्वासः च सम्पूर्णस्य भारतीयदलस्य सह सन्ति।

वित्तमन्त्री ओपी चौधरी सर्वेषां क्रीडकानाम् उत्कृष्टप्रदर्शनस्य कामनां कृत्वा अवदत् यत् सम्पूर्णः देशः तेषां सफलतार्थं प्रार्थनां करोति। तेन विश्वासः व्यक्तः यत् भारतीयाः क्रीडकाः कॉमनवेल्थ गेम्स २०२६ स्पर्धासु उत्कृष्टं प्रदर्शनं कृत्वा राष्ट्रस्य मानं गौरवं च वर्धिष्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani