Enter your Email Address to subscribe to our newsletters

भोपालम्, 24 जुलाईमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य शुक्रवासरे पन्नाजनपदस्य प्रवासे भविष्यति। अस्मिन् अवसरे जनपदमुख्यालयस्थिते होमगार्ड-प्राङ्गणे आयोजिते कार्यक्रमे सः द्वावधिकशतचतुःकोटिषट्विंशल्लक्षरूप्यकपरिमितव्ययेन सम्पन्नानां द्वाविंशतिविकासकार्याणां लोकार्पणं भूमिपूजनञ्च करिष्यति।
जनसम्पर्काधिकारी लक्ष्मणसिंहः अवदत् यत् कार्यक्रमे मुख्यमन्त्री डॉ. मोहनयादवः चतुःनवतिःकोटित्रिषष्टिलक्षरूप्यकव्ययेन सम्पन्नानां षण्णां विकासकार्याणां लोकार्पणं तथा एकोनदशोत्तरशतकोटित्रिषष्टिलक्षरूप्यकव्ययेन सम्पन्नानां षोडशविकासकार्याणां भूमिपूजनं करिष्यति।
मुख्यमन्त्री गुनौर-पवईस्थितयोः शासकीयसांदीपनि-उच्चमाध्यमिकविद्यालययोः तथा शासकीयमहाविद्यालयस्य पवई-नवीनभवनस्य लोकार्पणं करिष्यति। तदतिरिक्तं बृजपुर-सुहावा-बैराजयोजनयोः, बृहस्पतिकुण्डस्य सौन्दर्यीकरणस्य, ग्लास-फ्लोर-दर्शनमञ्चस्य च लोकार्पणमपि करिष्यति।
तथा टाईं-सम्पर्कमार्गस्य, मकरन्दगञ्ज-हरद्वाही-गुनौरमार्गस्य, मडवा-बन्धामार्गस्य, सप्तैया-झरकुआँ-पगरा-बम्हौरीमार्गस्य च सुदृढीकरणकार्यस्य भूमिपूजनं करिष्यति। डायमण्ड-सङ्ग्रहालयस्य, पन्नास्थितसंयुक्त-एसडीएम-कार्यालयभवनस्य, छत्रसाल-स्नातकोत्तरमहाविद्यालयस्य विज्ञानभवनस्य नवीनीकरणोन्नयननवीननिर्माणकार्यस्य, गीता-पेट्रोलपम्पात् पोस्ट-ऑफिस-त्रिमार्गपर्यन्तं मार्गविभाजकनिर्माणस्य, अन्येषां विकासकार्याणां तथा स्वच्छभारतमिशन-शहरीययोजनान्तर्गतजलप्रबन्धनकार्यस्य च भूमिपूजनमपि भविष्यति।
एतदतिरिक्तं पवई-अनुविभागीयाधिकारीकार्यालयस्य त्रिशतसप्ततिवर्गमीटरपरिमितनिर्माणकार्यस्य, पन्नास्थितशासकीयपॉलीटेक्निकमहाविद्यालये कर्मशालानवीनभवननिर्माणस्य, उत्कृष्टपवई-शासकीयोच्चमाध्यमिकविद्यालये शतशतशय्यात्मकयोः बालकबालिकाच्छात्रावासयोर्निर्माणस्य, रक्सेहा तथा भापतपुरकुर्मियान-शासकीयउच्चविद्यालययोः उच्चमाध्यमिकस्तरोन्नयननिर्माणकार्यस्य च भूमिपूजनं मुख्यमन्त्री करिष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani