दिल्ली-रिज-प्रदेशे महद् वृक्षारोपण-अभियानम्, मुख्यसचिवः राजीव-वर्मा पर्यावरणमन्त्री सिरसा च पादपारोपणम् अकुरुताम्
नवदिल्ली, २४ जुलाईमासः (हि.स.)। दिल्लीमुख्यमन्त्रिण्याः रेखा-गुप्तायाः नेतृत्वे दिल्ली-सर्वकारस्य ७० लक्ष-वृक्षारोपण-लक्ष्यस्य अन्तर्गतं शुक्रवासरे दिल्ली-रिज-प्रदेशस्य पीबीजी-प्राङ्गणे महद् वृक्षारोपण-अभियानम् आयोजितम्। अस्मिन् अभियाने दिल्ली-राज्
मनजिंदर सिंह सिरसा


नवदिल्ली, २४ जुलाईमासः (हि.स.)। दिल्लीमुख्यमन्त्रिण्याः रेखा-गुप्तायाः नेतृत्वे दिल्ली-सर्वकारस्य ७० लक्ष-वृक्षारोपण-लक्ष्यस्य अन्तर्गतं शुक्रवासरे दिल्ली-रिज-प्रदेशस्य पीबीजी-प्राङ्गणे महद् वृक्षारोपण-अभियानम् आयोजितम्। अस्मिन् अभियाने दिल्ली-राज्यस्य मुख्यसचिवः राजीव-वर्मा वरिष्ठाधिकारिभिः सह पादपारोपणम् अकरोत्। अस्मिन् अवसरे पर्यावरण-वन-वन्यजीवमन्त्री मनजिन्दरसिंह-सिरसा अपि उपस्थितः आसीत्।

पर्यावरणमन्त्री मनजिन्दरसिंह-सिरसा अवदत् यत् दिल्ली स्वइतिहासस्य महत्तमस्य वृक्षारोपण-अभियानस्य साक्षिणी भवति। सः अवदत् यत् अस्मिन् वर्षे राजधानीक्षेत्रे ७० लक्ष-पादपानां रोपणस्य लक्ष्यं निर्धारितम् अस्ति। अपरञ्च केन्द्रीयगृहमन्त्रिणः अमित-शाहस्य प्रेरणया दिल्ली-रिज-प्रदेशे अन्येषु च चिह्नितेषु हरितक्षेत्रेषु पर्यावरण-पुनर्स्थापन-कार्यक्रमस्य अन्तर्गतं १५ लक्ष-पादपाः रोप्यन्ते।

सः अवदत् यत् एतत् अभियानङं प्रधानमन्त्रिणः नरेन्द्रमोदिनः “एकः वृक्षः मातुः नाम्ना” इत्यस्य आह्वानस्य प्रेरणया सञ्चाल्यते। सर्वकारस्य उद्देश्यं केवलं पादपारोपणं नास्ति, अपितु प्रत्येकं पादपस्य वैज्ञानिकरीत्या भौगोलिक-अङ्कनम् कृत्वा तस्य नियमित-पर्यवेक्षणं संरक्षणं च सुनिश्चितीकर्तुम् अस्ति। एतदर्थम् अग्रिम-दशवर्षाणां दीर्घकालिक-वृक्षारोपण-रणनीतिः निर्मिता, यस्याम् देशीय-वृक्षप्रजातयः प्राथमिकतया स्वीकृताः।

सिरसा अवदत् यत् देशीयप्रजातीनां वृक्षाः अधिकम् ऑक्सीजन-वायुम् उत्पादयन्ति, अल्पेन जलेन सम्यक् वर्धन्ते तथा प्रदूषण-निवारणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। सः अवदत् यत् सर्वकारः भाविवंशानां कृते स्थायिनीं हरितसम्पदं निर्मातुं प्रयतते, अस्मिन् कार्ये जनसहभागिता एव प्रमुखः आधारः अस्ति।सः अवदत् यत् अस्य अभियानस्य समाजस्य विभिन्नवर्गेभ्यः व्यापकं समर्थनं प्राप्यते। न्यायपालिका, सप्तत्यधिक-देशानां राजनैयायिकाः, शैक्षणिकसंस्थाः, धार्मिकसङ्घटनानि, विविध-सामाजिक-संस्थाः च निरन्तरम् अस्मिन् अभियाने सहभागं कुर्वन्ति, येन पर्यावरणसंरक्षणम् जनान्दोलनस्य रूपं प्राप्नोति।

पर्यावरणमन्त्री राजधानीस्थेषु दीर्घकालात् सञ्चितानां अवशिष्ट-पर्वतानाम् वैज्ञानिक-निस्तारणस्य अपि उल्लेखम् अकरोत्। सः अवदत् यत् गत-सार्धैकवर्षे प्रायः ६० प्रतिशतं सञ्चित-अवशिष्टस्य निस्तारणं सम्पन्नम्, येन विशालभूमिः पुनः उपयोगाय उपलब्धा अभवत् तथा सा हरितक्षेत्ररूपेण विकसिता भवति।

सः अवदत् यत् अवशिष्ट-पर्वतानां समापनम्, व्यापक-वृक्षारोपणम् च— एते उभे अभियाने मिलित्वा दिल्लीं स्वच्छां, हरितां, प्रदूषणमुक्तां च कर्तुं महत्त्वपूर्णं परिवर्तनम् आनयतः। अभियानस्य अन्ते सिरसा दिल्ली-सर्वकारस्य अधिकारिणां सहयोगस्य प्रशंसां कृत्वा विश्वासं व्यक्तवान् यत् सामूहिक-प्रयत्नैः दिल्ली विश्वस्तरीयं हरित-महानगरं निर्मातुं शक्यते।

Hindusthan Samachar / Divya Ranjan