Enter your Email Address to subscribe to our newsletters


नव दिल्ली, 24 जुलाईमासः (हि.स.)।
राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः मोहन भागवत शुक्रवासरे उक्तवान् यत् पारम्परिकजीवनमूल्यानां संरक्षणार्थं स्त्रीपुरुषयोः उभयोः प्रबोधनम् आवश्यकम् अस्ति। युवानां स्वमूलैः सह सम्बन्धस्थापनार्थं परिवारस्य कुटुम्बस्य च महत्त्वं मनसि निधाय संवादः आवश्यकः अस्ति।
देहलीस्थिते इण्डिया इण्टरनेशनल आम्बेडकर सेन्टरे शुक्रवासरे आयोजितां युगानुकूलमातृत्व इति विषयकां विश्वमाङ्गल्यसभायाः द्विदिवसीयप्रबोधनबैठकां राष्ट्रीयस्वयंसेवकसंघस्य सरसंघचालकः मोहन भागवत सम्बोधितवान्।
अस्मिन्नवसरे सः परिवारे समाजे च सामाजिकमाध्यमानां प्रभावविषये उक्तवान् यत् प्रौद्योगिक्याः उपयोगः करणीयः किन्तु तस्याः दासः न भवितव्यम्। सः उक्तवान् यत् बालकान् सामाजिकमाध्यमेभ्यः दूरं स्थापयितुं पूर्वं स्वयम् अपि तस्य पालनं कर्तव्यम्।
समाजे महिलानां वर्धमानभूमिकाविषये सः उक्तवान् यत् राष्ट्रस्य महिलाः समर्थाः सन्ति ताभ्यः अवसरप्रदानस्य आवश्यकता अस्ति। अद्यतनपरिवर्तितपरिवेशे परिवारपालनस्य दायित्वं स्त्रीपुरुषयोः उभयोः समानम् अस्ति। अधिकारैः सह कर्तव्यबोधः भवेत् परिवारे च अधिकः संवादः भवेत् चेत् परस्परम् अपनत्वं वर्धते। अतः परिवारस्य ऐक्यरक्षणस्य दायित्वं केवलं महिलानाम् एव न अपितु पुरुषाणाम् अपि अस्ति।
युगानुकूलमातृत्व इति विषये मोहन भागवत उक्तवान् यत् मातृत्वस्य आवश्यकता सम्पूर्णमानवजीवनपर्यन्तं तिष्ठति। एषा आवश्यकता केवलं बाल्यावस्थापर्यन्तं सीमिता न भवति। दश द्वादशवर्षीयायां वयसि यदा बालकः वर्धते तदा सः अल्पम् आज्ञापालकः भवति। प्रथमं सः स्वमातरम् एव अवज्ञाति। यतः यदि सः पितरम् अवज्ञायेत् तर्हि ताडनं प्राप्नुयात् किन्तु मातुः समीपे तादृशः भयभावः न भवति। अतः सः प्रतिवदति हठी भवति तथा विविधाः तादृश्याः चेष्टाः करोति। यदा प्रत्यक्षशिक्षा जीवनस्य परिपूर्णतायै अनावश्यका भवति तदापि भावनात्मकसमर्थनस्य आवश्यकता अवशिष्यते। स्वाभाविकं सर्वदा उपलब्धं च स्थानं यत्र कश्चित् गत्वा रुदितुं शान्तिं च प्राप्तुं शक्नोति तत् स्थानं माता एव अस्ति। अतः मातृत्वस्य आवश्यकता सम्पूर्णमानवजीवनपर्यन्तं भवति।
युगानुकूलमातृत्व इति विषयकस्य डा. मोहन भागवतस्य सार्वजनिकोद्बोधनकार्यक्रमे जम्मू श्रीनगर अनन्तनाग लेह लद्दाख अरुणाचलप्रदेश मणिपुर पश्चिमबङ्गप्रदेशादिभ्यः विविधप्रदेशेभ्यः अष्टशताधिकाः सहस्रपर्यन्ताः महिलाः सहभागिन्यः अभवन्। महिलाभिः परिवर्तमाने सामाजिकपरिदृश्ये मातृत्वम् परिवारः संस्काराः राष्ट्रनिर्माणम् इत्यादिविषयेषु स्वप्रश्नाः पृष्टाः येषां उत्तराणि सरसंघचालकेन मोहन भागवतेन प्रदत्तानि। अस्मिन्नवसरे डा. वृषाली जोशी विरचितायाः युगानुकूलमातृत्वस्य अवधारणा इति पुस्तकस्य विमोचनम् अपि कृतम्।
अस्मिन्नवसरे विश्वमाङ्गल्यसभायाः संस्थापकः गुरुजी दत्तपीठपरम्परायाः अष्टादशमः पीठाधीश्वरः परमपूज्यः आचार्यः स्वामी जितेन्द्रनाथजी महाराजः उपस्थितः आसीत्। अन्येषु विशिष्टातिथिषु भारतीयजनतापक्षस्य वरिष्ठनेता मुरलीमनोहर जोशी महिला बालविकासमन्त्री अन्नपूर्णा देवी सांसदः कङ्गना रनौत बांसुरी स्वराज कमलजीत सहरावत इन्दिरागान्धीराष्ट्रियकलाकेन्द्रस्य अध्यक्षः रामबहादुर राय इत्यादयः अनेके जनाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani