Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 जुलाईमासः (हि.स.)।काङ्ग्रेसदलस्य महासचिवः (सञ्चारविभागः) जयरामरमेशः प्रधानमन्त्री नरेन्द्रमोदिनं नीट्-यूजी प्रश्नपत्रप्रस्रवणप्रकरणे द्विमासपर्यन्तं मौनं स्थितवान् इति आरोपं कृत्वा अवदत् यत् प्रबलजनाक्रोशानन्तरमेव शासनं प्रश्नपत्रप्रस्रवणस्य सत्यं स्वीकर्तुं विवशम् अभवत्। तेन आरोपितं यत् शासनं निरन्तरं छात्रहितात् स्वराजनैतिकहितं गुरुतरं मन्यमानं दुर्बलान्वेषणं कारितवान् तथा च उत्तरदायित्वात् पराङ्मुखम् अभवत्। तेन शिक्षामन्त्री धर्मेन्द्रप्रधानस्य पदच्युतेः, छात्रेषु हिंसां कृतवतां विरुद्धं कठोरकार्यवाह्याः तथा छात्रेभ्यः सार्वजनिकक्षमायाचनायाश्च आग्रहः कृतः।
जयरामरमेशः शुक्रवासरे सामाजिकमाध्यममञ्चे ‘एक्स’ इत्यत्र अलिखत् यत् प्रधानमन्त्री प्रायः द्विमासीयमौनानन्तरं रात्रौ चलच्चित्रसन्देशं प्रसार्य प्रश्नपत्रप्रस्रवणविषये स्वमतं प्रकाशितवान्। तेन उक्तं यत् शासनं दीर्घकालपर्यन्तं नीट्-यूजी २०२६ परीक्षायाः प्रश्नपत्रं प्रस्रुतम् आसीदिति स्वीकर्तुं न इच्छत्। शिक्षामन्त्री धर्मेन्द्रप्रधानः स्वीयायां पत्रकारसम्मेलने जानीमानीत्या ‘प्रश्नपत्रप्रस्रवण’ इति पदस्य प्रयोगं न कृतवान्, शिक्षामन्त्रालयेन च संसदीयशिक्षासम्बद्धस्थायिसमितेः पुरतः अपि आधिकारिकरूपेण उक्तं यत् प्रश्नपत्रप्रस्रवणं न जातम्।
तेन उक्तं यत् जनसामान्यस्य प्रबलदबावस्य परिणामस्वरूपं प्रधानमन्त्री अन्ततः सत्यं स्वीकृतवान्, किन्तु शासनस्य आचरणकारणात् छात्राणां विश्वासः तस्मात् पूर्णतया नष्टः।
जयरामरमेशेन आरोपितं यत् २०२४ तमस्य वर्षस्य नीट्-यूजी परीक्षायां केषुचित् परीक्षाकेन्द्रेषु सन्दिग्धरीत्या बहवः श्रेष्ठफलप्राप्ताः छात्राः दृष्टाः, तथापि शासनं व्यापकानियमिततायाः प्रमाणानि निगूहितवान्। अनन्तरं शासनं हजारीबागनगरे चयनात्मकप्रश्नपत्रप्रस्रवणं जातमिति स्वीकृतवान्, किन्तु दोषिणः अद्यापि दण्डिताः न अभवन्।
तेन उक्तं यत् पूर्वं यः सञ्जीवमुखियः प्रश्नपत्रप्रस्रवणस्य मुख्यसूत्रधारः इति कथितः, अधुना स एव निर्दोषः इति कथ्यते। केन्द्रीयान्वेषणब्यूरो (सीबीआई) २०२४ तमे वर्षे निरस्तायाः विश्वविद्यालयानुदानायोगस्य राष्ट्रियपात्रतापरीक्षायाः (यूजीसी-नेट्) प्रकरणे समापनप्रतिवेदनं समर्पितवती, यस्मिन् प्रश्नपत्रप्रस्रवणं न जातम् इति उक्तम्, किन्तु तस्य निर्णयस्य कारणानि अद्यापि न प्रकाशितानि।
जयरामरमेशः अवदत् यत् अयं सङ्कटः केन्द्रीयान्वेषणब्यूरोः दुर्बलान्वेषणस्य शासननेतृत्वस्य च विफलतायाः परिणामः अस्ति।
तेन उक्तं यत् अस्य सम्पूर्णप्रकरणस्य समाधानदिशि प्रथमं चरणं शिक्षामन्त्री धर्मेन्द्रप्रधानस्य पदच्युतिः, छात्रेषु हिंसां कृतवतां विरुद्धं कठोरकार्यवाही तथा छात्रेभ्यः सार्वजनिकक्षमायाचनं भवितुमर्हति।
---------------
Hindusthan Samachar / Dheeraj Maithani