अन्ताराष्ट्रिय-क्रीडास्पर्धासु पदकविजेतारः क्रीडकाः प्रत्यक्ष-नियुक्त्यर्थम् अष्टम-अगस्तपर्यन्तम् आवेदनं कर्तुं शक्नुवन्ति
नोएडानगरम्, २४ जुलाईमासः (हि.स.)। अन्ताराष्ट्रिय-स्तरीय-क्रीडास्पर्धासु पदकानि विजित्य यशः प्राप्तवन्तः उत्तरप्रदेशस्य गौतमबुद्धनगरजनपदस्य क्रीडकाः प्रत्यक्ष-नियुति-नियमा-वली-२०२२ अन्तर्गतं अष्टम-अगस्तपर्यन्तम् अन्तर्जाल-माध्यमेन आवेदनं कर्तुं शक्न
प्रतीकात्मक छवि


नोएडानगरम्, २४ जुलाईमासः (हि.स.)। अन्ताराष्ट्रिय-स्तरीय-क्रीडास्पर्धासु पदकानि विजित्य यशः प्राप्तवन्तः उत्तरप्रदेशस्य गौतमबुद्धनगरजनपदस्य क्रीडकाः प्रत्यक्ष-नियुति-नियमा-वली-२०२२ अन्तर्गतं अष्टम-अगस्तपर्यन्तम् अन्तर्जाल-माध्यमेन आवेदनं कर्तुं शक्नुवन्ति। चिह्नितेषु विभागेषु क्रीडा-आरक्षणस्य अन्तर्गतं तेषां नियुक्तिः भविष्यति। एतदर्थम् अन्तर्जाल-आवेदन-प्रक्रिया प्रारब्धा अस्ति।

प्रभारी-जनपद-क्रीडाधिकारी डॉ. परवेज-अली अद्य अवदत् यत् ये क्रीडकाः २०२० तमस्य वर्षस्य सितम्बर-मासस्य प्रथमदिनात् आरभ्य अथवा तदनन्तरम् अन्ताराष्ट्रिय-क्रीडास्पर्धासु पदकानि अर्जितवन्तः, तेषां नियुक्तिः प्रत्यक्ष-भर्ती-नियमावली-२०२२ अन्तर्गतं चिह्नितेषु विभागेषु रिक्तपदानां सापेक्षं करिष्यते। इच्छुकाः पात्राश्च क्रीडकाः अग्रिम-अष्टम-अगस्तपर्यन्तम् आवेदनं कर्तुं शक्नुवन्ति।

तेन उक्तं यत् आवेदनपत्रस्य प्रारूपं विस्तृता च सूचना उत्तरप्रदेश-क्रीडा-विभागस्य जालपुटे upsports-gov-in/sportsdirectorate तथा खेल-साथी इति पटले https://khelsathi-in/ उपलब्धा अस्ति। ततः आवेदनपत्रं अवरोप्य आवेदनं कर्तुं शक्यते।

Hindusthan Samachar / Divya Ranjan