प्रधानमंत्रिनो मोदिनः आश्वासनोत्तरं सोनम वांगचुकःसमाप्नोत् अनशनम्
नव दिल्ली, 24 जुलाईमासः (हि.स.)। नीट-प्रश्नपत्र-प्रस्रवणप्रकरणम् अधिकृत्य षड्विंशतिदिनपर्यन्तं प्रवर्तमानम् अनिश्चितकालोपवासम् सामाजिककार्यकर्ता सोनम् वाङ्चुकः समाप्तवान्। एषः निर्णयः केन्द्रीयस्वास्थ्यमन्त्रिणा जे. पी. नड्डा तथा परमाणुशक्तिविभाग
सोनम वांगचुक (फाइल फोटो)


नव दिल्ली, 24 जुलाईमासः (हि.स.)।

नीट-प्रश्नपत्र-प्रस्रवणप्रकरणम् अधिकृत्य षड्विंशतिदिनपर्यन्तं प्रवर्तमानम् अनिश्चितकालोपवासम् सामाजिककार्यकर्ता सोनम् वाङ्चुकः समाप्तवान्। एषः निर्णयः केन्द्रीयस्वास्थ्यमन्त्रिणा जे. पी. नड्डा तथा परमाणुशक्तिविभागस्य अन्तरिक्षविभागस्य च राज्यमन्त्रिणा डॉ. जितेन्द्रसिंहेन सह दीर्घविमर्शानन्तरं गृहीतः। अस्य पूर्वं प्रधानमन्त्री नरेन्द्रमोदी दृश्यसन्देशं प्रसार्य प्रश्नपत्र-प्रस्रवणदोषिणां विरुद्धं कठोरकार्यवाहीं तथा अस्मिन् विषये मन्त्रिमण्डलस्तरे महत्त्वपूर्णनिर्णयानां घोषणां कर्तुं आश्वासनम् अदात्।

उपवासस्य समापनानन्तरं सोनम् वाङ्चुकः अवदत् यत् एषः निर्णयः व्यापकविमर्शस्य तथा देशे कस्यापि प्रकारस्य हिंसायाः आशङ्कां दृष्ट्वा गृहीतः। तेन उक्तं यत् विभिन्नराजनैतिकदलानां पञ्चषष्टिः सांसदाः तेन सह मिलित्वा अथवा पत्रं प्रेष्य उपवाससमापनार्थम् अनुरोधं कृतवन्तः। तेन अपि सूचितं यत् अस्य निर्णयस्य पृष्ठे केचन महत्त्वपूर्णाः नियमाः सन्ति, येषां विषये सः शीघ्रमेव पृथग्दृश्यसन्देशेन सूचनां दास्यति। स्वसमर्थकान् प्रति सः शान्तिपूर्णरीत्या आन्दोलनं निरन्तरं प्रवर्तयितुं तथा सर्वथा हिंसां परित्यक्तुं प्रार्थितवान्।

अस्मिन् अवसरे केन्द्रीयस्वास्थ्यमन्त्री जे. पी. नड्डा तथा डॉ. जितेन्द्रसिंहः सफदरजङ्गचिकित्सालये सोनम् वाङ्चुकं मिलितवन्तौ, तयोः मिलनस्य दृश्यं बहिः प्रकाशितम्। सूत्रानुसारं शासनस्य आन्दोलनकारिणां च मध्ये बहुषु विमर्शचक्रेषु अनन्तरं अनेकासु महत्त्वपूर्णासु विषयेषु सम्मतिः अभवत्। आन्दोलनभागिनां विरुद्धं दण्डात्मककार्यवाही न भविष्यतीति शासनस्य आश्वासनम् अपि उपवाससमापने महत्त्वपूर्णं कारणम् अभवत्।

सोनम् वाङ्चुकः गतस्य जूनमासस्य अष्टाविंशतितमे दिवसे प्रतियोगितापरीक्षासु कथितप्रश्नपत्र-प्रस्रवणस्य तथा शिक्षाव्यवस्थायां उत्तरदायित्वस्य समर्थनार्थम् अनिश्चितकालोपवासम् आरब्धवान्। तस्य प्रमुखाः अपेक्षाः आसन् यत्परीक्षाप्रणाल्यां पारदर्शिताया सुनिश्चितीकरणम्, दोषिणां विरुद्धं कठोरकार्यवाही, भविष्ये प्रश्नपत्र-प्रस्रवणनिवारणार्थं प्रभावीव्यवस्थायाः कार्यान्वयनम् च।

निरन्तरोपवासकारणात् जुलैमासस्य अष्टादशतमे दिवसे तस्य स्वास्थ्यावस्था अवनता अभवत्। वैद्यानाम् उपदेशेन न्यायालयस्य निर्देशेन च देहलीपुलिसेन तं सफदरजङ्गचिकित्सालये उपचारार्थं प्रवेशितम्।

प्रधानमन्त्री नरेन्द्रमोदी स्वदृश्यसन्देशे सामाजिकमाध्यमे च प्रकाशितसन्देशे उक्तवान् यत् “प्रश्नपत्र-प्रस्रवणस्य विरुद्धं अधिककठोराणि उपायानि श्वः मन्त्रिमण्डलस्य उपवेशने स्वीकृतानि भविष्यन्ति।” अस्य आश्वासनस्य अनन्तरं आन्दोलनस्य समाधानदिशि अनुकूलः वातावरणः निर्मितः, ततः परं रात्रौ सोनम् वाङ्चुकः स्वोपवासस्य समापनस्य घोषणाम् अकरोत्।

अस्य पूर्वं केन्द्रीयस्वास्थ्यमन्त्री जे. पी. नड्डा सोनम् वाङ्चुकस्य शीघ्रस्वास्थ्यलाभस्य कामनां कृत्वा उक्तवान् यत् सः वैद्यानाम् उपदेशानुसारं दिनचर्यां पालयेत्, शीघ्रमेव स्वस्य पूर्ववजनं पुनः प्राप्नुयात्। सः ईश्वरात् तस्य उत्तमस्वास्थ्यस्य प्रार्थनामपि अकरोत्।

--------------

हिन्दुस्थान समाचार / Dheeraj Maithani