Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 24 जुलाईमासः (हि.स.)।
शुक्रवासरे प्रधानमन्त्रिणा नरेन्द्रमोदिना सामाजिकसञ्चारमाध्यमे ‘एक्स्’ इत्यत्र संस्कृतसुभाषितमेकं समंविभज्य जीवने शुभविचाराणां, मधुरवाचः, श्रेष्ठकर्मणां च महत्त्वम् उद्घाटितम्। तेन उक्तं यत् मनुष्यः यान् विचारान्, वाचः, कर्माणि च पुनः पुनः आचरति, अन्ततः तदेव तस्य व्यक्तित्वस्य जीवनदिशायाश्च निर्धारकं भवति।
प्रधानमन्त्रिणा एतत् सुभाषितं प्रकाशितं यत्
“कर्मणा मनसा वाचा यदभीक्ष्णं निषेवते।
तदेवापहरत्येनं तस्मात् कल्याणमाचरेत्॥
अस्य सुभाषितस्य भावार्थः अस्ति यत् मनुष्यः कर्मणा, मनसा, वाचा च यां प्रवृत्तिं पुनः पुनः सेवते, सा शनैः शनैः तस्य स्वभावं चरित्रं च निर्माति। अन्ततः तदेव तस्य व्यक्तित्वस्य निर्माणं करोति तथा तं तस्याः दिशायामेव प्रेरयति।
प्रधानमन्त्रिणा उक्तं यत् प्रत्येकेन जनेन स्वविचारेषु सकारात्मकभावः, स्ववाचि मधुरता, स्वकर्मसु लोककल्याणभावना च धारणीया। कल्याणकारीणामाचाराणामनुसरणेन न केवलं व्यक्तेः चरित्रं सुदृढं भवति, अपि तु समाजस्य राष्ट्रस्य च निर्माणे तस्य सकारात्मकयोगदानमपि सुनिश्चितं भवति।
---------------
Hindusthan Samachar / Dheeraj Maithani