सत्यनिष्ठेभ्यः करदातृभ्यः सुविधाः प्रदीयन्ताम्, करापवञ्चने कठोरकार्यवाहीं क्रियताम् - वित्तमन्त्री सीतारमणः
नवदेहली, जुलाईमासः २४ (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः शुक्रवासरे आयकर-अधिकारिभ्यः सत्यनिष्ठेभ्यः करदातृभ्यः सुविधाः प्रदातुं, करापवञ्चनस्य प्रकरणेषु च कठोरकार्यवाहीं कर्तुम् आह्वानम् अकरोत्।सा नवदेहल्यां १६७-तमस्य आयकर-दिवसस्य उपलक्ष
नई दिल्ली में 167वें आयकर दिवस पर आयोजित कार्यक्रम को संबोधित करते सीतारमण


नई दिल्ली में 167वें आयकर दिवस पर आयोजित कार्यक्रम को संबोधित करते सीतारमण


नवदेहली, जुलाईमासः २४ (हि.स.)। केन्द्रीयवित्तमन्त्री निर्मलासीतारमणः शुक्रवासरे आयकर-अधिकारिभ्यः सत्यनिष्ठेभ्यः करदातृभ्यः सुविधाः प्रदातुं, करापवञ्चनस्य प्रकरणेषु च कठोरकार्यवाहीं कर्तुम् आह्वानम् अकरोत्।सा नवदेहल्यां १६७-तमस्य आयकर-दिवसस्य उपलक्ष्ये आयोजिते कार्यक्रमे सम्बोधनं कुर्वती अवदत्— “करनिर्धारणे निश्चितता अर्थव्यवस्थायै अत्यावश्यकी अस्ति।” ततः पूर्वं सा विशिष्टातिथिरूपेण पारम्परिक-दीपप्रज्वालनं कृतवती, विभागस्य अधिकारिभिश्च सरस्वती-वन्दना प्रस्तुताभूत्।

स्वीये सम्बोधने वित्तमन्त्री आयकर-अधिकारिणः संवेदनशीलाः भवितुम् उपदिदेश। सा अवदत् यत् ज्ञात्वा करापवञ्चनं कुर्वतां जनानां तथा अज्ञानवशात् त्रुटिं कुर्वतां जनानां मध्ये स्पष्टः भेदः करणीयः। तया आयकर-विभागस्य कृते पञ्च प्राथमिकताः अपि निर्दिष्टाः— अभिज्ञानम्, प्रतिक्रिया, निवारणम्, आत्ममन्थनम् तथा सुधारः।

सा अधिकारिणः प्रति उक्तवती - “करविधिना प्रदत्तानाम् अधिकाराणां विनयेन उपयोगः क्रियताम् तथा कार्यप्रणाली अधिका सुचारु-प्रभावी च क्रियताम्।” गतवर्षे स्वया प्रतिपादितं स्मारितवती यत् आधुनिकस्य करप्रशासनस्य कृते केवलम् आधुनिकविधयः प्रौद्योगिकी च न पर्याप्ताः, अपितु आधुनिककार्यालयाः, उत्कृष्ट-सुविधायुक्ताः कार्यालयाः, प्रेरितः कार्यबलश्च समानरूपेण आवश्यकाः सन्ति।सीतारमणः अवदत् यत् विभागेन गतवर्षे एतेषां प्राथमिकतानां पूर्त्यर्थं निरन्तरं प्रगतिः कृता। मुम्बई, देहली, बेंगलूरु, चेन्नै, नोएडा इत्यादिषु स्थानेषु नूतन-कार्यालय-समुच्चयानां निर्माणे आधुनिकीकरण-परियोजनासु च उल्लेखनीया प्रगतिः अभवत्। अधिकारिणां कर्मचारिणां च कृते आवासीय-कल्याणसुविधासु अपि निरन्तरं निवेशः क्रियते।

सा अपि अवदत् यत् द्वाभ्यां दिवसाभ्यां परं मुम्बई-नगरे नूतनस्य ‘आयकर-सिन्धु’ कार्यालय-समुच्चयस्य उद्घाटनं करिष्यामि, यत् विश्वस्तरीय-अवसंरचना-निर्माणस्य दिशि महत्त्वपूर्णः मीलपाषाणः भविष्यति। विश्वस्तरीय-अवसंरचनायां निवेशेन सह अधिकारिणां ज्ञानम्, कौशलम्, नेतृत्वक्षमताश्च विकसितुं समानप्रतिबद्धतया निवेशः करणीयः।

अन्ते वित्तमन्त्री उक्तवती यत् कृत्रिमबुद्धिमत्ता, दत्तांश-विश्लेषणम्, न्याय-वैज्ञानिक-लेखाङ्कनम्, अन्ताराष्ट्रिय-कराधानम्, स्थानान्तरण-मूल्यनिर्धारणम्, डिजिटल-सम्पत्तयः, साइबर-सुरक्षा तथा उन्नत-वित्तीय-अन्वेषणम् इत्यादिषु विषयेषु विशेष-प्रशिक्षणं प्रोत्साहनीयम्। तया एतदपि प्रतिपादितं यत् अधिकारिभ्यः नेतृत्व-विकासस्य नियमितं व्यवस्थितं प्रशिक्षणम् अपि प्रदातव्यम्।

Hindusthan Samachar / Divya Ranjan