Enter your Email Address to subscribe to our newsletters

नव दिल्ली/रायपुरम्, 24 जुलाईमासः (हि. स.)।
छत्तीसगढे रेलसम्पर्कस्य मालपरिवहनस्य च सुदृढीकरणार्थं केन्द्रीयसर्वकारेण खरसिया नयरायपुर परमलकसा इति नूतनद्विरेलमार्गपरियोजनायाः अनुमोदनं प्रदत्तम्।
केन्द्रीयरेलमन्त्री अश्विनी वैष्णव शुक्रवासरे राज्यसभायां लिखितोत्तरे अवदत् यत् २०२५ तमवर्षस्य अप्रेलमासे २७८ किलोमीटरदीर्घा एषा परियोजना ७८५४ कोटिरूप्यकाणां अनुमानितव्ययेन अनुमोदिता आसीत्।
अयं रेलमार्गः बिलासपुर रायपुर दुर्ग इत्यादीन् व्यस्तान् रेलखण्डान् परिहरिष्यति। अनेन मालयानानां यात्रियानानां च सञ्चारः अधिकवेगेन सुगमतया च भविष्यति। एषा परियोजना छत्तीसगढस्य अष्टजिलान् व्याप्स्यति तथा विशेषतया बलौदाबाजारजिलः प्रथमवारं रेलजालेन सम्बद्धः भविष्यति। सहैव खरसिया यत् महानदी कोलफील्ड्स लिमिटेड संस्थायाः कोयलाक्षेत्राणां प्रमुखः रेलप्रवेशद्वारम् अस्ति तस्मात् मालपरिवहनम् अपि नूतनां गतिं प्राप्स्यति।
एषा परियोजना विशेषरेलपरियोजना इति घोषिताऽस्ति। अस्याः कृते प्रायः १८५२ हेक्टेयर भूमेः आवश्यकता भविष्यति तथा भूम्यधिग्रहणस्य प्रक्रिया तीव्रतया प्रवर्तते।
रेलमन्त्रालयस्य अनुसारेण २०२६ २७ तमवर्षस्य कृते छत्तीसगढस्य रेलविनियोगः वर्धमानः प्रायः ७४७० कोटिरूप्यकाणि जातः। अयं विनियोगः २००९ तः २०१४ पर्यन्तस्य औसतवार्षिकविनियोगात् प्रायः चतुर्विंशतिगुणः अधिकः अस्ति। २०१४ तः २०२६ पर्यन्तं राज्ये १३११ किलोमीटरपरिमिता नूतना रेलपङ्क्तिः प्रवर्तिता।
अधुना राज्ये ४८२०२ कोटिरूप्यकव्यययुक्ताः ३६ रेलपरियोजनाः प्रचलन्ति। तासु अष्ट नूतनरेलमार्गपरियोजनाः अष्टाविंशतिः द्विरीकरणपरियोजनाश्च अन्तर्भवन्ति। मन्त्रालयेन उक्तं यत् परियोजनानां समापनकालः भूम्यधिग्रहणम् वनानुमतयः अन्याः तकनीकीप्रशासनिकप्रक्रियाश्च अपेक्ष्य निर्धार्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani