'युगानुकूल मातृत्वे’ विश्वमांगल्य सभायाः द्विदिवसीय प्रबोधनोपवेशने संघस्य सरसंघचालक मोहन भागवतोऽद्य कार्यकर्तॄणां करिष्यति मार्गदर्शनम्
नव दिल्ली, 24 जुलाईमासः (हि.स.)। दिल्लीनगरे विश्वमाङ्गल्यसभायाः प्रबोधनोपवेशनस्य अद्य द्वितीयः दिवसः अस्ति। अस्य द्वितीयदिने शुक्रवासरे प्रातः नववादने विश्वयुवकेन्द्रे कार्यकर्तृसत्रस्य शुभारम्भः अभवत्। अस्मिन् सत्रे राष्ट्रियस्वयंसेवकसङ्घस्य सरसंघ
राष्ट्रीय स्वयंसेवक संघ के सरसंघचालक डॉ. मोहन भागवत


नव दिल्ली, 24 जुलाईमासः (हि.स.)। दिल्लीनगरे विश्वमाङ्गल्यसभायाः प्रबोधनोपवेशनस्य अद्य द्वितीयः दिवसः अस्ति। अस्य द्वितीयदिने शुक्रवासरे प्रातः नववादने विश्वयुवकेन्द्रे कार्यकर्तृसत्रस्य शुभारम्भः अभवत्। अस्मिन् सत्रे राष्ट्रियस्वयंसेवकसङ्घस्य सरसंघचालकः डॉ. मोहनभागवतः कार्यकर्तॄन् मार्गदर्शनं करिष्यति तथा आगामिवर्षस्य संगठनात्मककार्यक्रमाणां रूपरेखायाः विषये विचारविमर्शः भविष्यति।

विश्वमाङ्गल्यसभायाः सूचनानुसारं भोजनोत्तरम् अपराह्णे चतुर्वादने नूतनदिल्लीस्थे अम्बेड्कर इण्टरनेशनल् सेण्टर् इत्यत्र “युगानुकूलमातृत्वम्” इति विषये डॉ. मोहनभागवतः सार्वजनिकमुद्बोधनं भविष्यति। अस्मिन् कार्यक्रमे उत्तरभारतीयविविधराज्येभ्यः समागतानां प्रायः अष्टशतात् सहस्रपर्यन्तं प्रबुद्धमहिलानां सहभागिता अपेक्ष्यते।

विश्वमाङ्गल्यसभायाः पदाधिकरिणः अवदन् यत् एतत् द्विदिवसीयं प्रबोधनोपवेशनं परिवर्तमाने सामाजिकपरिदृश्ये मातृत्वस्य, परिवारस्य, संस्काराणां, राष्ट्रनिर्माणस्य च विषयेषु विचारविमर्शस्य तथा संगठनस्य वार्षिककार्ययोजनानिर्माणस्य प्रमुखमञ्चः अस्ति।

उल्लेखनीयम् अस्ति यत् उत्तरभारतस्य विविधराज्येभ्यः समागताभिः महिलाभिः सह विश्वमाङ्गल्यसभायाः द्विदिवसीयं प्रबोधनोपवेशनं गुरुवासरात् नूतनदिल्लीस्थे विश्वयुवकेन्द्रे दीपप्रज्वलनेन प्रारब्धम्। “युगानुकूलमातृत्वम्” इति विषये आयोजिते अस्मिन् उपवेशने प्रथमे दिवसे प्रायः द्विशतपञ्चाशत् महिला कार्यकर्त्र्यः सहभागी अभवन्। तासु जम्मू, श्रीनगर, अनन्तनाग, लेह्-लद्दाख, अरुणाचलप्रदेश, मणिपुर, पश्चिमबङ्गप्रदेशादिभ्यः समागतानां प्रतिनिधीनामपि उपस्थितिः आसीत्।

गुरुवासरे उद्घाटनसत्रे विश्वमाङ्गल्यसभायाः संस्थापकः गुरुजी दत्तपीठपरम्परायाः अष्टादशः पीठाधीश्वरः परमपूज्यः आचार्यः स्वामी जितेन्द्रनाथजी महाराजः उपस्थितः आसीत्। अस्मिन् अवसरे राष्ट्रियस्वयंसेवकसङ्घस्य वरिष्ठप्रचारकः संगठनस्य मार्गदर्शकः प्रशान्तहलतरकरः, विश्वमाङ्गल्यसभायाः राष्ट्रियाध्यक्षा नलिनीहावरे, राष्ट्रियसंगठनमन्त्री वृषालीजोशी च उपस्थिताः आसन्।

राष्ट्रियसंगठनमन्त्री वृषालीजोशी अवदत् यत् “मातृनिर्माणेन राष्ट्रनिर्माणम्” इति ध्येयेन कार्यरताया विश्वमाङ्गल्यसभाया देशव्यापिन्या मातृशक्तेः संगठनं संस्काराधारितसमाजनिर्माणं च प्रवर्तते। तया उक्तं यत् प्रचारिकाभिः सह लक्षाधिकाः गृहस्थमहिलाकार्यकर्त्र्यः परिवारस्य, समाजस्य, राष्ट्रस्य च प्रति स्वकर्तव्यं निर्वहन्त्यः संस्कारितसन्ततेः निर्माणे महत्त्वपूर्णं योगदानं ददति। तया भारतीयमातृत्वस्य सांस्कृतिकमूल्यानां भारतीयतायुक्तपारिवारिकवातावरणस्य च संरक्षणस्य आवश्यकता विशेषरूपेण प्रतिपादिता।

आचार्यः स्वामी जितेन्द्रनाथजी महाराजः अवदत् यत् परिवर्तमाने सामाजिकपरिवेशे मातृत्वस्य भूमिका, तस्याः समक्षं स्थिताः चुनौतीश्च विषये गम्भीरचिन्तनम् अपेक्षितम्। प्रशान्तहलतरकरः अपि उक्तवान् यत् कस्यापि संगठनस्य महत्तमा शक्तिः तस्य समर्पिताः स्थिराश्च कार्यकर्तारः एव भवन्ति, ये संयुक्तकुटुम्बभावनया राष्ट्रनिर्माणकार्यं निरन्तरम् अग्रे नयन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani