संस्कृति-आयुर्वेदिक-चिकित्सालये उपचारं करिष्यन्ति हिम्स-संस्थायाः वैद्याः, जातः अनुबन्धः
मथुरानगरम्, २४ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मथुराजनपदस्थिते संस्कृति आयुर्वेदिक-चिकित्सालये अधुना हिम्स इत्यस्य वैद्याः प्राकृतिक-चिकित्सया आयुर्वेदिक-चिकित्सया च रोगिणां उपचारं प्रारब्धवन्तः। महत्त्वपूर्णायाः सामञ्जस्य-सन्धेः अन्तर्गतं भारतस्
हिम्स के संस्थापक आचार्य मनीष संस्कृति विवि के कुलाधिपति डा. सचिन गुप्ता,


मथुरानगरम्, २४ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मथुराजनपदस्थिते संस्कृति आयुर्वेदिक-चिकित्सालये अधुना हिम्स इत्यस्य वैद्याः प्राकृतिक-चिकित्सया आयुर्वेदिक-चिकित्सया च रोगिणां उपचारं प्रारब्धवन्तः। महत्त्वपूर्णायाः सामञ्जस्य-सन्धेः अन्तर्गतं भारतस्य प्रमुखेषु आयुर्वेदिक-चिकित्सालयेषु अन्यतमः हिम्स संस्कृति-आयुर्वेदिक-चिकित्सालयं स्वस्य नूतनकेन्द्ररूपेण सञ्चालयितुं प्रारब्धवान्। अत्र हिम्स इत्यस्य ख्याताः वैद्याः स्वानुभवेन विशेषज्ञतया च ब्रजप्रदेशस्य समीपवर्तिक्षेत्राणां च रोगिणां प्राकृतिक-चिकित्सया आयुर्वेदेन च उपचारं कुर्वन्ति। रोगिभ्यः आयुर्वेदं, प्राकृतिक-चिकित्सां समग्र-स्वास्थ्य-परिपालनं च एकीकृत्य प्राकृतिक-विधिना दीर्घकालिक-रोगाणां श्रेष्ठम् आयुर्वेदिक-चिकित्सोपचारः प्रदीयते। संस्कृत्याः आयुर्वेदिक-चिकित्सालयस्य हिम्स इत्यस्य च प्रमुखोद्देश्यं रोगाणां मूलकारणस्य निवारणं तथा शरीरस्य शोधनं, पुनर्जीवनं, सन्तुलनं च साधयन्त्यः चिकित्सापद्धतयः प्रदातुम् अस्ति।

संस्कृति-विश्वविद्यालयस्य कुलाधिपः डॉ. सचिन-गुप्तः अवदत् यत् संस्कृति- आयुर्वेदिक-चिकित्सालये प्रारब्धः हिम्स आयुर्वेद-वेलनेस-चिकित्सालयः आयुर्वेदेन प्राकृतिक-चिकित्सा च स्वास्थ्यस्य पुनःस्थापनं लक्ष्यीकुरुते। अयं चिकित्सालयः शरीरस्य स्वाभाविक-चिकित्साशक्तिं वर्धयितुं विविधोपचारान् प्रददाति। हिम्स इत्यत्र प्रत्येकस्य रोगिणः व्यक्तिगत-परिचर्यायाः विशेषं ध्यानं दीयते। तत्र रोगिणः प्रकृतिं स्वास्थ्यावस्थां च सम्यक् परीक्ष्य तदनुरूपा चिकित्सायोजना निर्मीयते। उपचारस्य आरम्भः परामर्शेन भवति। वैद्याः रोगिणः दोषवैषम्यस्य मूल्याङ्कनं कृत्वा तदनुसारं उपचारयोजनां निर्मिमते। अस्यां योजनायां प्रायः औषधीय-वनस्पतिज-भेषजानि, शरीर-शोधन-चिकित्सा, आहार-परिवर्तनं तथा जीवनशैली-सम्बद्धाः परामर्शाः समाविष्टाः भवन्ति।

हिम्स इत्यस्य संस्थापकः आचार्य-मनीषः अवदत् यत् हिम्स स्वकीयैः विशिष्टैरायुर्वेदिक-चिकित्सोपचारैः प्रसिद्धः अस्ति। एतेषु चिकित्सापद्धतयः, औषधीय-वनस्पतिज-भेषजानि तथा रोगिणां कृते आहार-जीवनशैली-सम्बद्धाः परामर्शाः समाविष्टाः सन्ति। एते आयुर्वेदिकोपचाराः वृक्करोगः, यकृतरोगः, कर्कटरोगः, हृद्रोगः, वन्ध्यत्वम्, मधुमेहः, उच्चरक्तचापः इत्यादीनां दीर्घकालिकरोगाणां चिकित्सायां सहायकाः भवन्ति। अस्मिन् केन्द्रे बाह्यरोगिविभागः, अन्तःरोगिविभागः, डे-केयर-सेवा, पञ्चकर्म, आहार-परिचर्या च हिम्स द्वारा प्रदीयन्ते।

Hindusthan Samachar / Divya Ranjan