Enter your Email Address to subscribe to our newsletters

वाङ्चुकः अवदत् — शिक्षामन्त्रिणः अन्नत्यागेन हानिः सर्वकारस्यैव भविष्यति
नवदेहली, २४ जुलाईमासः (हि.स.)। पर्यावरणविद् सामाजिक-कार्यकर्ता च सोनम-वाङ्चुकः शुक्रवासरे प्रातःकाले षड्विंशति-दिवस-प्रवृत्तम् आमरण-अनशनं समाप्तवान्। तेन उक्तं यत् सर्वकारात् विभिन्न-राजनैतिक-दलानां पञ्चषष्टि-सांसदेभ्यश्च लिखित-आश्वासनं प्राप्य सः एतं निर्णयम् अकरोत्। सर्वकारेण संसदि नीट्-प्रश्नपत्र-प्रस्रवणम्, परीक्षापद्धत्यां उत्तरदायित्व-निर्धारणम्, शिक्षासुधार-विषयेषु विस्तृता चर्चा, अद्यतन-नीट्-प्रश्नपत्र-प्रस्रवणेन आत्महत्यां कृतवतां छात्राणां परिजनेभ्यः समुचित-क्षतिपूर्तेः प्रदानम्, जन्तर-मन्तरे तथा जुलाईमासस्य २० दिनाङ्के संसद्-शोभायात्रायां शान्तिपूर्णं प्रदर्शनं कृतवतां छात्र-यूनां विरुद्धं च किमपि अभियोगं न पञ्जीकरिष्यते इति आश्वासनं प्रदत्तम्। किन्तु केन्द्रीय-शिक्षामन्त्रिणः धर्मेन्द्र-प्रधानस्य त्यागपत्र-विषये किमपि लिखितम् आश्वासनं न प्रदत्तम्। अस्मिन् विषये वाङ्चुकः अवदत् यत् यदि सर्वकारः एतस्याः याचनाया: विषये निर्णयं न करोति, तर्हि तस्य हानिः छात्राणां न, अपितु स्वयं सर्वकारस्य भविष्यति।
सोनम-वाङ्चुकेन नीट्-प्रश्नपत्र-प्रस्रवण-विषये सीजेपी इत्यस्य जन्तर-मन्तर-स्थितस्य आन्दोलनस्य समर्थनार्थं जूनमासस्य २८ दिनाङ्के आमरण-अनशनम् आरब्धम्। अनशनकाले स्वास्थ्यावस्था असम्यक् अभवत्, अतः प्रथमं सः सफदरजङ्ग-चिकित्सालये प्रविष्टः। पश्चात् देहली-उच्चन्यायालयस्य निर्देशानुसारं गुरुग्रामस्थितं मेदान्ता-चिकित्सालयं प्रति स्थानान्तरितः।
वाङ्चुकेन रात्रौ प्रकाशिते स्व-वीडियो-सन्देशे उक्तं यत् शुक्रवासरे प्रातः केन्द्रीयमन्त्री जे.पी.-नड्डा डॉ. जितेन्द्र-सिंहश्च तं मिलितवन्तौ। तयोः सर्वकारस्य लिखित-आश्वासनं पठित्वा श्रावितम्, ततः तरल-पेयम् पाययित्वा तस्य अनशनं समाप्तं कारितम्।
आश्वासन-पत्रे लिखितम् आसीत् यत् जन्तर-मन्तरे शान्तिपूर्णतया प्रदर्शनं कृतवतां प्रदर्शनकारिणां तथा जुलाईमासस्य २० दिनाङ्के संसद्-शोभायात्रायां भागं गृहीतवतां जनानां विरुद्धं किमपि आपराधिक-प्रकरणं न पञ्जीकरिष्यते। सर्वकारेण पूर्वमेव आश्वासनं दत्तम् यत् प्रश्नपत्र-प्रस्रवणस्य समाधानार्थं परीक्षापद्धतेः सुधारार्थं च संसदि विस्तृता चर्चा भविष्यति। अपि च अद्यतन-नीट्-प्रश्नपत्र-प्रस्रवण-प्रकरणेन सम्बद्धानां आत्महत्या-पीडित-परिवाराणां समुचित-क्षतिपूर्तेः विषये सकारात्मकतया विचारः करिष्यते।
वाङ्चुकः अवदत् यत् गतद्विदिनात् सर्वकारेण सह निरन्तरं वार्ता प्रचलिता आसीत्। तेन स्पष्टतया उक्तम् आसीत् यत् केवलं मौखिक-आश्वासनेन सः अनशनं न समापयिष्यति, अपितु लिखितम् आश्वासनम् अपेक्षते। अतः तेन दिवसद्वयम् अधिकम् अनशनम् आचरितम्। अन्ततः सर्वकारेण लिखितम् आश्वासनं प्रदत्तम्, तदनन्तरं सः अनशन-समाप्तेः निर्णयम् अकरोत्।
वीडियो-सन्देशे वाङ्चुकः अवदत् यत् विभिन्न-राजनैतिक-दलानां पञ्चषष्टि-सांसदाः स्वयम् आगत्य अथवा हस्ताक्षरयुक्त-पत्रं सम्प्रेष्य अनशन-समाप्तये प्रार्थितवन्तः। तैः आश्वासितं यत् संसदि परीक्षापद्धतेः विफलताः, प्रश्नपत्र-प्रस्रवणम्, उत्तरदायित्व-निर्धारणं च विषयीकृत्य विस्तृता चर्चा भविष्यति, येन भविष्ये एतादृशानां घटनानां पुनरावृत्तिः न भवेत्। तेन उक्तं यत् तस्य उद्देश्यं केवलं नीट्-विषयः न, अपितु सम्पूर्ण-परीक्षापद्धत्यां उत्तरदायित्वस्य सुनिश्चितीकरणम् अस्ति।
धर्मेन्द्र-प्रधानस्य त्यागपत्र-विषये वाङ्चुकः अवदत् यत् सर्वकारः अस्मिन् विषये किमपि आश्वासनं दातुं न शक्तः। तेन उक्तं यत् तस्य पुरतः द्वौ मार्गौ आस्ताम्—अनिश्चितकालपर्यन्तम् अनशनं निरन्तरं कृत्वा सम्भवतः प्राणान् त्यजेत्, अथवा छात्रहितं दृष्ट्वा तेषु विषयेषु प्राप्तं लिखितम् आश्वासनं स्वीकुर्यात्, येषां छात्राणां भविष्येण सह प्रत्यक्षः सम्बन्धः अस्ति। यदि शिक्षामन्त्री त्यागपत्रं न दास्यति, तर्हि तस्य हानिः छात्राणां न, अपितु सर्वकारस्यैव भविष्यति। सः अवदत् यत् कालान्तरे एषः विषयः स्वयमेव निर्णीतः भविष्यति।
वाङ्चुकः अवदत् यत् आन्दोलनभागिनां छात्र-यूनां विरुद्धं किमपि प्रकरणं न पञ्जीक्रियते इति सुनिश्चितीकरणमेव तस्य कृते सर्वाधिकं महत्त्वपूर्णम् आसीत्। तेन उक्तं यत् लद्दाखे दीर्घकालपर्यन्तं प्राथमिकी-भारः यूनां भविष्यं कथं प्रभावितवान् इति सः दृष्टवान्। अतः छात्राणां विधिक-कार्यवाह्याः संरक्षणार्थं लिखितम् आश्वासनं तस्य कृते महती उपलब्धिः अस्ति। आत्महत्यां कृतवतां छात्राणां परिवाराणां क्षतिपूर्तेः तथा संसदि उत्तरदायित्व-विषये चर्चायाः आश्वासनमपि तेन महत्त्वपूर्णम् उक्तम्।
सः अवदत् यत् भारतस्य संसद् लोकतन्त्रस्य सर्वोच्च: मञ्च: अस्ति। यदि तत्र परीक्षापद्धतेः, शिक्षासुधारस्य, उत्तरदायित्वस्य च विषये गम्भीरा चर्चा भविष्यति, तर्हि तत् देशस्य छात्राणां हिताय महत् पदं भविष्यति। तेन सर्वेषां राजनैतिक-दलानां सांसदान्, स्वसमर्थकान्, आन्दोलन-सम्बद्ध-जनान् च प्रति कृतज्ञता व्यक्ता।
अनशनं समापयन् सः अवदत् यत् षड्विंशति-दिवसानन्तरं तरल-पेयस्य स्वादः अत्यन्तं प्रियः अनुभूयते, किन्तु तस्य “क्षुधा अद्यापि न समाप्ता।” एषा क्षुधा उत्तरदायित्वस्य शिक्षाव्यवस्थायाः सुधारस्य च अस्ति तथा एषः संघर्षः अग्रेऽपि निरन्तरं भविष्यति। तेन छात्रेभ्यः आह्वानं कृतं यत् स्वम् आन्दोलनं सर्वथा शान्तिपूर्णं कुर्वन्तु, हिंसां समाजविघातक-तत्त्वान् वा आन्दोलनस्य भागं न कुर्वन्तु।
अनशन-समाप्तेः अनन्तरं वाङ्चुकेन एक्स् सामाजिक-माध्यमे लिखितम्—“क्षुधायाः अन्तः… उत्तरदायित्वस्य आरम्भः।” सर्वकारात् विभिन्न-राजनैतिक-दलानां सांसदेभ्यश्च प्राप्त-आश्वासनानन्तरं तेन अनशनं समाप्तम्। संसदि परीक्षापद्धतेः विफलतायाः उत्तरदायित्वस्य च विषये चर्चा भविष्यति, नीट्-प्रश्नपत्र-प्रस्रवणेन सम्बद्धानां आत्महत्या-पीडित-छात्राणां परिवाराणां पर्याप्त-क्षतिपूर्तिः प्रदास्यते तथा शान्तिपूर्णं प्रदर्शनं कृतवतां छात्र-यूनां विरुद्धं किमपि प्रकरणं न पञ्जीकरिष्यते।
एतादृशी सूचना अपि प्राप्ता यत् सर्वकारः जन्तर-मन्तरे आन्दोलनरतैः सीजेपी-नेतृभिः सह संविधान-क्लब इत्यत्र वार्तां कर्तुं शक्नोति। किन्तु अस्मिन् विषये केन्द्रसर्वकारतः भारतीय-जनता-पक्षतः वा अद्यापि काचिद् आधिकारिक-पुष्टिः न कृता। सीजेपी-नेतृत्वं तु पूर्वमेव स्पष्टीकृतवान् यत् केन्द्रीय-शिक्षामन्त्रिणः धर्मेन्द्र-प्रधानस्य त्यागपत्र-पर्यन्तं तस्य आन्दोलनं प्रवर्तिष्यते।
उल्लेखनीयं यत् गुरुवासरे रात्रौ प्रधानमन्त्री नरेन्द्रमोदी राष्ट्रस्य नाम सन्देशं प्रदाय प्रश्नपत्र-प्रस्रवण-घटनासु चिन्तां व्यक्तवान्। तेन उक्तं यत् गत-सार्धत्रिमासे सर्वकारेण प्रश्नपत्र-प्रस्रवण-निवारणार्थं बहवः उपायाः स्वीकृताः, दोषिणः गृहीत्वा कारागारं प्रेषिताः, छात्राणां शैक्षणिक-वर्षस्य संरक्षणं च सर्वोच्च-प्राथमिकतया स्वीकृतम्।
प्रधानमन्त्रिणा घोषणा कृता यत् प्रश्नपत्र-प्रस्रवण-निवारणार्थं परीक्षापद्धतेः अधिक-पारदर्शितार्थं च सम्बन्धितः विधेयक-प्रारूपः शुक्रवासरे केन्द्रीय-मन्त्रीमण्डलस्य सभायां प्रस्तुतः भविष्यति। प्रधानमन्त्रिणः अस्य सन्देशस्य कतिपय-होरानन्तरमेव सोनम-वाङ्चुकेन सर्वकारस्य लिखित-आश्वासनस्य आधारेण स्वीयं षड्विंशति-दिवसीयम् अनशनं समापितम्।
Hindusthan Samachar / Divya Ranjan