Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 24 जुलाईमासः (हि.स.)।
पर्यावरणविद् सामाजिककार्यकर्ता च सोनम् वाङ्चुकः रात्रौ स्वस्य षड्विंशतिदिनात्मकम् अनिश्चितकालोपवासं समाप्तवान्। अस्मिन् विषये तेन दृश्यसन्देशः प्रसारितः, यस्मिन् सः उक्तवान् यत् देशे उत्तरदायित्वस्य निर्धारणम् अनिवार्यम् अस्ति। तेन शासनस्य सह जातस्य संवादस्य तथा प्राप्तानाम् आश्वासनानामपि सूचना प्रदत्ता। तथापि तस्मिन् केन्द्रीयशिक्षामन्त्रिणः धर्मेन्द्रप्रधानस्य त्यागपत्रस्य विषयः नोल्लिखितः।
सोनम् वाङ्चुकः अवदत् यत् शासनस्य तथा विभिन्नराजनैतिकदलानां नेतृभिः आश्वासनं दत्तम् अस्ति यत् संसदि परीक्षाप्रणाल्याः विफलतायाः उत्तरदायित्वनिर्धारणार्थं चर्चा भविष्यति। तथा नीट-परीक्षायाः प्रश्नपत्र-प्रस्रवणप्रकरणेन आत्महत्यां कृतवतां छात्राणां परिवारजनान् प्रति समुचितं क्षतिपूरणं प्रदास्यते इति शासनम् आश्वासनम् अदात्। अपरञ्च शान्तिपूर्णरीत्या प्रदर्शनं कुर्वतां छात्राणां युवानां च विरुद्धं किमपि प्रकरणं न पञ्जीकृतं भविष्यतीति अपि शासनस्य आश्वासनम् इति तेन उक्तम्।
एतस्मिन्नेव समये सूचना प्राप्ता यत् शासनं जन्तरमन्तरस्थले आन्दोलनरतैः सीजेपी-नेतृभिः सह कॉन्स्टिट्यूशनल-क्लबे वार्तां कर्तुं शक्नोति। अस्मिन् विषये शासनस्य भारतीयजनतापक्षस्य वा अद्यापि किमपि आधिकारिकवक्तव्यं न प्रकाशितम्।
सीजेपी-आन्दोलनस्य नेतृत्वं कुर्वन् अभिजीत् दीपके उक्तवान् यत् धर्मेन्द्रप्रधानस्य त्यागपत्रपर्यन्तं तेषाम् आन्दोलनं निरन्तरं प्रवर्तिष्यते। सः अपि अवदत् यत् ते सोनम् वाङ्चुकस्य त्यागं निष्फलं न गन्तुं दास्यन्ति।
उल्लेखनीयम् अस्ति यत् सोनम् वाङ्चुकः रात्रौ केन्द्रीयमन्त्रिणोः जे. पी. नड्डा तथा डॉ. जितेन्द्रसिंहस्य उपस्थितौ गतषड्विंशतिदिनपर्यन्तं प्रवर्तमानम् उपवासं समाप्तवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani