उपराष्ट्रपतिः, प्रधानमंत्री च राष्ट्रमंडलक्रीडासु सम्मिलितेभ्यो भारतीयकरीडकेभ्यः शुभकामनां अदत्ताम्
नवदिल्ली, 24 जुलाईमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् तथा प्रधानमन्त्री नरेन्द्रमोदी ग्लास्गोनगरे आरब्धेषु राष्ट्रमण्डलक्रीडास्पर्धासु २०२६ वर्षस्य भारतीयक्रीडादलस्य सर्वेभ्यः सदस्येभ्यः हार्दिकशुभकामनाः प्रेषितवन्तौ। उपराष्ट्रपतिः रा
कॉमनवेल्थ गेम्स 2026 के आगाज की एक झलक।


नवदिल्ली, 24 जुलाईमासः (हि.स.)।

उपराष्ट्रपतिः सी.पी. राधाकृष्णन् तथा प्रधानमन्त्री नरेन्द्रमोदी ग्लास्गोनगरे आरब्धेषु राष्ट्रमण्डलक्रीडास्पर्धासु २०२६ वर्षस्य भारतीयक्रीडादलस्य सर्वेभ्यः सदस्येभ्यः हार्दिकशुभकामनाः प्रेषितवन्तौ।

उपराष्ट्रपतिः राधाकृष्णन् सामाजिकमाध्यमे ‘एक्स’ इत्यत्र अलिखत् यत् “राष्ट्रमण्डलक्रीडास्पर्धासु सहभागिनः भारतीयदलस्य सर्वेभ्यः सदस्येभ्यः मम हार्दिकशुभकामनाः। अस्माकं क्रीडकाः राष्ट्रस्य गौरवं वर्धयितुं दृढसङ्कल्पं, उत्कृष्टकौशलं, यथार्थक्रीडाभावनां च प्रदर्शयिष्यन्ति इति मम विश्वासः। सर्वासु स्पर्धासु तेषां महान् विजयः भवतु इति प्रार्थये।”

प्रधानमन्त्री नरेन्द्रमोदी अपि उक्तवान् यत् “राष्ट्रमण्डलक्रीडास्पर्धासु सहभागिनः भारतीयदलस्य सर्वेभ्यः मम शुभकामनाः। अस्माकं क्रीडकाः उत्साहेन, दृढनिश्चयेन, उत्कृष्टप्रदर्शनभावनया च स्पर्धासु भागं ग्रहीष्यन्ति इति मम पूर्णविश्वासः। तेषां कौशलं परिश्रमश्च सदा असंख्यभारतीयान् प्रेरयतः।”

उल्लेखनीयं यत् ग्लास्गोनगरे गुरुवासरे रात्रौ राष्ट्रमण्डलक्रीडास्पर्धानां विधिवत् उद्घाटनम् अभवत्। एताः स्पर्धाः जुलैमासस्य २३ दिनाङ्कात् आरभ्य अगस्तमासस्य २ दिनाङ्कपर्यन्तं प्रचलिष्यन्ति। अस्मिन् महोत्सवे राष्ट्रमण्डलक्रीडासङ्घस्य चतुःसप्ततिः सदस्यराष्ट्राणां सहस्रशः क्रीडकाः पदकलाभाय स्पर्धिष्यन्ते।

---------------

Hindusthan Samachar / Dheeraj Maithani