Enter your Email Address to subscribe to our newsletters


– सिंहस्थ-२०२८-सज्जानां त्वरिती-करणाय मुख्यप्रशिक्षकाणां राज्यस्तरीयः परिसंवादः आयोजितः
भोपालनगरम्, २४ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य आरक्षकमहानिदेशकः कैलाश-मकवाणः उक्तवान् यत् सिंहस्थ-२०२८ केवलं धार्मिकः समारोहः नास्ति, अपितु विश्वस्य महानतमः आध्यात्मिकसमागमः अस्ति, यस्य सफलतायां मध्यप्रदेश-आरक्षकबलस्य व्यावसायिकदक्षता, संवेदनशीलता तथा समन्वितकार्यशैली अपि परीक्ष्यते। सः अवदत् यत् मध्यप्रदेश-आरक्षकबलं गतत्रिवर्षेभ्यः योजनाबद्धरीत्या चरणबद्ध-रीत्या च सिंहस्थ-२०२८-सज्जासु निरन्तरं कार्यं करोति। आधुनिक-प्रौद्योगिक्या, उत्कृष्टप्रशिक्षणेन तथा प्रभावीसमन्वयेन मध्यप्रदेश-आरक्षकबलं सिंहस्थ-२०२८ सुरक्षितं, सुव्यवस्थितं, अनुकरणीयं च आयोजनं करिष्यतीति सः विश्वासं प्रकटितवान्।
एतानि वचनानि आरक्षकमहानिदेशकः मकवाणः शुक्रवासरे भोपालस्थिते कुशाभाऊ-ठाकरे-अन्ताराष्ट्रिय-अधिवेशन-केन्द्रे आयोजिते “सिंहस्थ-२०२८ : प्रशिक्षकाणां प्रशिक्षण-पाठ्यक्रमः” इत्यस्य राज्यस्तरीय-परिसंवादे उक्तवान्। अस्य परिसंवादस्य उद्देश्यं सिंहस्थ-२०२८ कृते प्रचलितानां प्रशिक्षणकार्यक्रमाणां समीक्षा, विभिन्नजनपदेषु प्रशिक्षणस्य प्रगतिमूल्याङ्कनम्, क्षेत्रानुभवानां सहभागः तथा प्रशिक्षणव्यवस्थायाः आवश्यकसुधाराणां नवप्रयोगानां च कार्यनीतेः निर्माणम् आसीत्।
अस्मिन् परिसंवादे प्रदेशस्य विभिन्न-भागेभ्यः समागताः मुख्यप्रशिक्षकाः, वरिष्ठ-आरक्षक-अधिकारिणः, प्रशिक्षणसंस्थानानां प्रतिनिधयः तथा सिंहस्थ-२०२८-सज्जासु संलग्नाः अधिकारिणः उपस्थिताः आसन्। कार्यक्रमे जनपदस्तरे प्रचलितानां प्रशिक्षणगति-विधीनां, प्रशिक्षणनमूनानां, क्षेत्रानुभवानां, नवप्रयोगानां, प्रतिपुष्टेः तथा भाविकार्ययोजनायाः विषये विस्तृता चर्चा अभवत्।
अस्मिन् अवसरे फरवरी-२०२६ मासे उज्जयिन्यां आयोजितात् मन्थन-परिसंवादात् तथा विषयविशेषज्ञानां चर्चाभ्यः प्राप्तानां विचाराणाम् आधारेण व्यापकः प्रशिक्षणदृष्टिकोणः विकसितः। अप्रैल-२०२६ मासे आयोजितायां उच्चस्तरीयसमीक्षासभायां आरक्षक-कर्तव्य-पटलम्, ईएचआरएमएस -आधारित-मानवसंसाधनव्यवस्थापनम्, साइबरसुरक्षायोजना तथा विशेषप्रशिक्षणनमूना-विकासस्य विषये महत्त्वपूर्णाः निर्णयाः गृहीताः। तेषामेव प्रयत्नानां परम्परायाम् आयोजिते अस्मिन् परिसंवादे अद्यावधि सम्पन्नानां प्रशिक्षणकार्याणां समीक्षा कृता तथा भाविकार्ययोजना निश्चिता।
आरक्षकमहानिदेशकः अवदत् यत् सिंहस्थ-२०२८ कृते आवश्यकायाः आरक्षक-अधोसंरचनायाः विकासार्थं विस्तृता परियोजनापत्रिका सर्वकाराय प्रेषिता आसीत्, यस्याः समये अनुमोदनम् अभवत् तथा बहूनि महत्त्वपूर्णानि कार्याणि प्रगतौ सन्ति। आधुनिकप्रौद्योगिकी-आधारित-आरक्षकव्यवस्थां दृष्ट्वा विभिन्नविभागानां मध्ये समन्वित-कार्यपद्धतिः विकसिताभवति। आरक्षक-मुख्यालयेन विकसितं ईएचआरएमएस अन्तिमचरणे वर्तते, येन सिंहस्थसमये सहस्रशः आरक्षकाधिकारिणां कर्मचारिणां च नियुक्तिः, कर्तव्यविभाजनं, मानव-संसाधनव्यवस्थापनं च अधिकं सुव्यवस्थितं भविष्यति।
सः अवदत् यत् प्रयागराज-महाकुम्भ-२०२५-सफलायोजनात् मध्यप्रदेश-आरक्षकबलं बहून् महत्त्वपूर्णान् अनुभवान् अलभत। आरक्षकाधिकारिणः प्रयागराजं गत्वा तत्रत्यव्यवस्थां, जनसमूहव्यवस्थापनं, यातायातनियन्त्रणं तथा अन्याः उत्कृष्टव्यवस्थाः अध्ययितवन्तः, याः सिंहस्थ-२०२८-सज्जासु समाविष्टाः। सः अवदत् यत् आरक्षकबलस्य प्रशिक्षणार्थं द्विचरणात्मकः प्रशिक्षक-प्रशिक्षण-कार्यक्रमः आयोजितः, यस्य माध्यमेन प्रदेशे ३०३ मुख्यप्रशिक्षकाः निर्मिताः। एते प्रशिक्षिताः अधिकारिणः कर्मचारीणश्च स्वस्वजनपदेषु सहस्रशः आरक्षकर्मचारिणः भूमिकानुसारं प्रशिक्षयन्ति।
डीजीपी मकवाणः अवदत् यत् मुख्यमन्त्रिणः डॉ. मोहन-यादवस्य नेतृत्वे वर्षे २०२५ मध्ये ८,५०० तथा वर्षे २०२६ मध्ये ९,६६२ पदेषु नियुक्तेः अनुमोदनात् आरक्षकबलस्य क्षमता उल्लेखनीयरूपेण वर्धिष्यते। प्रायः १८ सहस्राधिकपदेषु नियुक्तिप्रक्रियया सिंहस्थ-२०२८ सहितं भाविकालस्य विधिव्यवस्थायाः आवश्यकताभ्यः प्रशिक्षितमानवसंसाधनं उपलब्धं भविष्यति। दीर्घकालानन्तरं उपनिरीक्षक-सूबेदार-संवर्गयोः नियुक्तिः अपि कृता, चयनितानाम् अभ्यर्थिनां प्रशिक्षणं शीघ्रमेव आरभ्यते।
सः वर्षस्य २००४ सिंहस्थमहोत्सवस्य उल्लेखं कृत्वा अवदत् यत् सीमितसंसाधनेष्वपि उत्कृष्टयोजनया प्रभावीसमन्वयेन च तत् आयोजनं सफलतया सम्पन्नम् आसीत्। अद्य तु आधुनिकप्रौद्योगिकीसाधनैः उन्नत-प्रशिक्षणव्यवस्थाभिश्च मध्यप्रदेश-आरक्षकबलम् अधिकं समर्थम् अस्ति। सिंहस्थ-२०२८-समये जनसमूह-व्यवस्थापनम्, यातायात-नियन्त्रणम्, आपद्व्यवस्थापनम्, अन्तर्राज्यीय-समन्वयः तथा त्वरितप्रतिक्रियाव्यवस्था अत्यन्तमहत्त्वपूर्णाः विषयाः भविष्यन्ति, येषु विशेषध्यानं दत्त्वा अधुनैव व्यापकसज्जा क्रियते।
डीजीपी मुख्यप्रशिक्षकाणां भूमिकां सिंहस्थ-२०२८-सफलतायाः प्रमुखाधारम् इति निरूप्य अवदत् यत् तैः प्रशिक्षिताः आरक्षककर्मचारिणः एव क्षेत्रे प्रत्यक्षतया स्वकर्तव्यं निर्वहिष्यन्ति। अतः प्रशिक्षणं केवलं औपचारिकप्रक्रिया नास्ति, अपितु कार्यदक्षता, अनुशासनम्, संवेदनशीलता, सेवाभावना च विकसितुं प्रभावीमाध्यमम् अस्ति। सः सर्वान् मुख्यप्रशिक्षकान् आहूतवान् यत् ते प्रत्येकं आरक्षककर्मणः अन्तःकरणे एषा भावना जागरयन्तु—सिंहस्थे कर्तव्यपालनं केवलं प्रशासनिकदायित्वं न, अपितु महाकालनगर्यां कोटिशः श्रद्धालूनां सेवायाः पुण्यावसरः अस्ति।
सः परिसंवादस्य आयोजकान्, वरिष्ठाधिकारिणः, सर्वान् प्रतिभागिनः च धन्यवादं ज्ञापयन् अवदत् यत् सिंहस्थ-२०२८-सफलता मध्यप्र-आरक्षकबलस्य सामूहिकप्रतिबद्धतायाः, दूरदृष्टेः तथा कर्तव्यनिष्ठायाः प्रतीकं भविष्यति।
परिसंवादे रेलवेमहानिदेशकः डी. प्रकाशः, विशेष-आरक्षकमहानिदेशकः उपेन्द्र-जैनः, महानिदेशिका रेणुका-मिश्रा, विशेष-आरक्षक-महानिदेशकः रविकुमार-गुप्तः तथा सेवानिवृत्तः विशेष-आरक्षक-महानिदेशकः सरबजीत-सिंहः अपि स्वविचारान् प्रस्तुतवन्तः।
अपराह्णे आयोजितायां “प्रशिक्षणे नवप्रयोगानाम् आवश्यकता” इति विषयक-परिचर्चायां उज्जयिनी-परिक्षेत्रस्य उप-आरक्षक-महानीरीक्षकः नवनीत-भसीनः, डीजीपी-कार्यालयस्य विनीत-कपूरः, उज्जयिनी-आरक्षकाधीक्षकः प्रदीप-शर्मा, एमपीपीए-भौंरीसंस्थानस्य उपनिदेशकः रामजी-श्रीवास्तवः तथा पीटीएस-उज्जयिन्याः आरक्षकाधीक्षिका मनीषा-पाठक-सोनी प्रशिक्षणे नवप्रयोगानां, प्रौद्योगिक्याः उपयोगस्य, व्यवहारिकाभ्यासाधारितप्रशिक्षणस्य च विषये स्वविचारान् अवदन्।
“जनपदस्तरे प्रशिक्षणसम्बद्धाः प्रतिपुष्टयः, विचाराः, अनुभवाश्च” इति विषयकसत्रे अतिरिक्त-आरक्षकमहानिदेशकः (उज्जयिनी-क्षेत्रम्) राकेश-कुमार-गुप्तः, सेवानिवृत्तः आरक्षकमहानीरीक्षकः अंशुमान-सिंहः तथा उप-आरक्षक-महानीरीक्षकः (विधिव्यवस्था-सुरक्षा) तरुण-नायकः प्रभावीप्रशिक्षण-व्यवस्था, प्रशिक्षकाणां भूमिका तथा भावि-आवश्यकताः इत्यादिषु विस्तृतमार्गदर्शनम् अयच्छन्।
परिसंवादस्य अन्तिमचरणे खण्डवा-आरक्षकाधीक्षकः ओंकारेश्वर-कर्तव्य-सम्बद्धप्रशिक्षणसज्जानां प्रस्तुती-करणम् अकरोत्। अनन्तरम् अतिरिक्त-आरक्षक-महानिदेशकः राकेश-कुमार-गुप्तः सिंहस्थ-२०२८-सज्जानाम् अधिक-प्रभावीकरणाय अग्रिमप्रशिक्षण-कार्ययोजनां प्रस्तुतवान्। कार्यक्रमस्य समापनम् अतिरिक्त-आरक्षक-महा-निदेशकस्य (गुप्तवार्ता) ए.साईं-मनोहरस्य धन्यवादज्ञापनेन अभवत्।
Hindusthan Samachar / Divya Ranjan