Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, २४ जुलाईमासः (हि.स.)। हिमाचलप्रदेशस्य काङ्गडाजनपदस्य देहरास्थिते दुर्गेशरण्य-अन्ताराष्ट्रिय-प्राणिसङ्ग्रहालये नूतनस्य विषयाधारित-उद्यानस्य निर्माणं भविष्यति। मुख्यमन्त्री सुखविन्द्रसिंह-सुक्खू शुक्रवासरे अस्य महत्त्वाकाङ्क्षि-परियोजनायाः शुभारम्भं कृतवान् तथा निर्माणार्थं हिमाचलप्रदेश-राज्य-जैवविविधता-मण्डलस्य माध्यमेन मुख्य-वन्यजीव-प्रतिपालकाय चत्वारि कोटि-रूप्यकाणि प्रदत्तवान्। एषा धनराशिः परियोजनायाः कार्यान्वयने व्ययीभविष्यति।
मुख्यमन्त्री अवदत् यत् एषा परियोजना हिमाचलप्रदेशस्य समृद्ध-जैवविविधतायाः संरक्षणेन सह पर्यावरण-शिक्षायाः, वैज्ञानिक-अनुसन्धानस्य तथा धारणीय-प्रकृत्याधारित-पर्यटनस्य संवर्धनाय राज्यसर्वकारस्य दृष्टेः भागः अस्ति। प्रायः २२,२४७ वर्गमीटर-परिमिते, अर्थात् प्रायः ५.५ एकर-परिमिते क्षेत्रे विकसितं एतत् विषयाधारित-उद्यानं प्रदेशस्य विविध-वनस्पतीनां प्राकृतिक-सम्पदां च एकस्मिन्नेव स्थले अवलोकयितुं ज्ञातुं च अवसरं प्रदास्यति।
तेन उक्तं यत् अस्यां परियोजनायां फाइकेरियम् अपि विकसितं भविष्यति, यत्र फाइकस्-प्रजातेः विविधाः वनस्पतयः तथा तासां पर्यावरणीयं, सांस्कृतिकं, संरक्षणसम्बद्धं च महत्त्वं प्रदर्श्यते। तदतिरिक्तम् आर्बोरेटम् अपि निर्मास्यते, यस्मिन् देशीय-विदेशीय-वृक्षाणां विविधाः प्रजातयः रोपिताः भविष्यन्ति। अत्र संरक्षण-, शिक्षा- तथा वैज्ञानिक-अध्ययन-सम्बद्धाः क्रियाकलापाः अपि प्रोत्साहिताः भविष्यन्ति। परियोजनायां एकः अवलोकन-स्तम्भः अपि निर्मास्यते, यतः समीपवर्तिनः प्राकृतिक-प्रदेशस्य विस्तीर्णं दृश्यं द्रष्टुं शक्यते। तदनन्तरं वेणु-प्रजातीनां प्रदर्शनार्थं बैम्बूसेटम् अपि विकसितं भविष्यति, यस्मिन् वेणोः पर्यावरणीयस्य आर्थिकस्य च महत्त्वस्य विषये सूचना प्रदास्यते।
मुख्यमन्त्री अवदत् यत् जैवविविधतायाः संरक्षणं राज्यसर्वकारस्य सतत-विकास-लक्ष्यस्य महत्त्वपूर्णः भागः अस्ति। तस्य मते अयं विषयाधारित-उद्यानः संरक्षणविषये जनजागरूकतां वर्धयितुं, पर्यावरणस्य सम्यगवबोधनं विकसितुं, व्यावहारिक-अध्ययनस्य वैज्ञानिक-अनुसन्धानस्य च महत्त्वपूर्णं केन्द्रं भविष्यति। तेन उक्तं यत् अस्याः परियोजनायाः माध्यमेन विद्यार्थिनः, शोधकर्तारः, पर्यटकाः तथा प्रकृतिप्रेमिणः प्रदेशस्य जैवविविधतां समीपतः ज्ञातुं अवगन्तुं च अवसरं प्राप्स्यन्ति। तेन सह प्रकृत्याधारित-पर्यटनस्य अपि संवर्धनं भविष्यति।
सुखविन्द्रसिंह-सुक्खू हिमाचलप्रदेश-राज्य-जैवविविधता-मण्डलस्य वनविभागस्य च अस्य प्रयत्नस्य प्रशंसां कृतवान्। तेन विश्वासः प्रकटितः यत् परियोजनायाः सम्पन्नतायाः अनन्तरं दुर्गेशरण्य-अन्ताराष्ट्रिय-प्राणि-सङ्ग्रहालयम् आगच्छतां पर्यटकानाम् अनुभवः अधिकः उत्कृष्टः भविष्यति तथा एतत् देशे जैवविविधता-संरक्षणस्य पर्यावरण-पर्यटनस्य च प्रमुखम् आदर्शरूपं भविष्यति।
अस्याः परियोजनायाः कार्यान्वयनं हिमाचलप्रदेशस्य मुख्य-वन्यजीव-प्रतिपालकेन करिष्यते। तस्मै हिमाचलप्रदेश-राज्य-जैवविविधता-मण्डलं तकनीकी-मार्गदर्शनं सहयोगं च प्रदास्यति।
Hindusthan Samachar / Divya Ranjan