बिहारसर्वकारः कबड्डीक्रीडकाय आदर्श कुमाराय ₹3 लक्षस्य छात्रवृत्तिः प्रदत्ता
सहरसा, 24 जुलाईमासः (हि.स.)। बिहारराज्यस्य प्रतिभाशालिनां कबड्डीक्रीडकानां प्रोत्साहनाय राज्यसर्वकारेण पुनरेकं महत्त्वपूर्णं पदक्षेपं कृतम्। उत्कृष्टप्रदर्शनं कृतवते एकस्मै युवा-कबड्डीक्रीडकाय त्रिलक्षरूप्यकाणां छात्रवृत्तिः प्रदत्ता। मुख्यमन्त्
आदर्श कुमार


सहरसा, 24 जुलाईमासः (हि.स.)।

बिहारराज्यस्य प्रतिभाशालिनां कबड्डीक्रीडकानां प्रोत्साहनाय राज्यसर्वकारेण पुनरेकं महत्त्वपूर्णं पदक्षेपं कृतम्। उत्कृष्टप्रदर्शनं कृतवते एकस्मै युवा-कबड्डीक्रीडकाय त्रिलक्षरूप्यकाणां छात्रवृत्तिः प्रदत्ता।

मुख्यमन्त्री सम्राटचौधरी उक्तवान् यत् एषा आर्थिकसाहाय्यराशिः क्रीडकस्य उच्चस्तरीयप्रशिक्षणं, क्रीडासामग्रीणां प्राप्तिं, विविधासु प्रतियोगितासु सहभागितां तथा आर्थिकविघ्नं विना शिक्षायाः निरन्तरतां सुनिश्चितुं प्रदीयते।

आदर्शः मशाल-कबड्डी-प्रतियोगितायां उत्कृष्टं प्रदर्शनं कृत्वा स्वप्रतिभां प्रदर्शितवान्। तस्य अस्य उल्लेखनीयस्य सफलतायाः सम्मानार्थं बिहारसर्वकारेण तस्मै त्रिलक्षरूप्यकाणां छात्रवृत्तिः प्रदत्ता।

सहरसाजनपद-कबड्डी-संघस्य सचिवः आशीषरञ्जनसिंहः अवदत् यत् एतादृश्यः योजनाः राज्यस्य युवा-क्रीडकान् अग्रे गन्तुं तथा राष्ट्रीय-अन्तरराष्ट्रीयस्तरे उत्कृष्टं प्रदर्शनं कर्तुं प्रेरयिष्यन्ति।

संयुक्तसचिवः तुषारकात्यायनः उक्तवान् यत् संघः क्रीडाप्रतिभानां परिचयं कर्तुं ताभ्यः सर्वप्रकारसहायतां प्रदातुं च दृढसङ्कल्पितः अस्ति। बिहारसर्वकारस्य छात्रवृत्तियोजनायाः उद्देश्यः क्रीडकान् आर्थिकदृष्ट्या सशक्तान् कृत्वा तान् स्वक्रीडायामेव पूर्णतया मनः निवेशयितुमवसरं प्रदातुम् अस्ति।

आदर्शः बिहारसर्वकारस्य प्रति कृतज्ञतां प्रकटयन् उक्तवान् यत् एषा छात्रवृत्तिः तस्मै नवीनां प्रेरणां प्रददाति। सः अवदत् यत् एषा साहाय्यराशिः उत्तमप्रशिक्षणाय, शारीरिकसामर्थ्यवर्धनाय तथा आगामिप्रतियोगितानां सिद्धतायै विनियोजिता भविष्यति। सः विश्वासमपि प्रकटितवान् यत् भविष्ये सः बिहारराज्यस्य देशस्य च यशः राष्ट्रिय-अन्ताराष्ट्रियमञ्चेषु वर्धयिष्यति।

अस्मिन् अवसरे उपाध्यक्षः पङ्कजगुप्तः, डॉ. आर. के. रविः, सुनीलकुमारझा, रौशनसिंहः, प्रमोदकुमारझा इत्यादयः अपि एतस्याः पहलस्य स्वागतं कृत्वा उक्तवन्तः यत् सर्वकारेण प्रदीयमानाः एतादृश्यः प्रोत्साहनयोजनाः राज्ये क्रीडासंस्कृतेः सुदृढीकरणं करिष्यन्ति तथा अधिकाधिकान् युवानः क्रीडाक्षेत्रस्य प्रति आकर्षयिष्यन्ति।

Hindusthan Samachar / Dheeraj Maithani