Enter your Email Address to subscribe to our newsletters

भोपालम्, 24 जुलाईमासः (हि.स.) ।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अखिलभारतीयविद्यार्थिपरिषदः प्रथमः राष्ट्रीयसङ्गठनमन्त्री राष्ट्रियस्वयंसेवकसङ्घस्य पूर्वः सहसरकार्यवाहः स्वर्गीयः मदनदासदेवी इत्यस्य पुण्यतिथौ श्रद्धाञ्जलिं समर्पितवान्।
मुख्यमन्त्री डॉ. मोहन यादवः शुक्रवासरे सामाजिकसञ्चारमाध्यमे एक्स इत्यत्र उक्तवान् यत् राष्ट्रनिर्माणे सङ्गठनसुदृढीकरणे युवाशक्तेः मार्गदर्शने च सहसरकार्यवाहस्य स्वर्गीयमदनदासदेव्याः समर्पितं जीवनं सर्वेषां कृते सदा प्रेरणास्रोतः भविष्यति।
उल्लेखनीयमस्ति यत् स्वर्गीयमदनदासदेवी १९४२ तमस्य वर्षस्य जुलैमासस्य ९ दिनाङ्के महाराष्ट्रराज्यस्य सोलापुरनगरे जन्म अलभत। तस्य सङ्गठनकौशलेन अखिलभारतीयविद्यार्थिपरिषदः अखिलभारतीयस्वरूपप्राप्तौ महत्त्वपूर्णं योगदानं दत्तम्। सः १९९२ तमे वर्षे राष्ट्रियस्वयंसेवकसङ्घस्य अखिलभारतीयसहप्रचारकप्रमुखः अभवत् तथा १९९४ तमे वर्षे सहसरकार्यवाहपदे नियुक्तः। २०२३ तमस्य वर्षस्य जुलैमासस्य २४ दिनाङ्के बेङ्गलूरुनगरे तस्य निधनम् अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani