शीतकालीन-सत्रे समान-नागरिक-संहितायाः कार्यान्वयनम्, समितेः सभानन्तरं प्रक्रिया प्रवर्धिष्यते - मुख्यमन्त्री सायः
रायपुरनगरम्, २४ जुलाईमासः (हि.स.)। छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायः उक्तवान् यत् छत्तीसगढे समान-नागरिक-संहितायाः कार्यान्वयनस्य दिशि राज्यसर्वकारः तीव्रगत्या अग्रे सरति। उच्चतम-न्यायालयस्य पूर्वन्यायाधीशाया: न्यायमूर्तेः रञ्जना-प्रकाश-
मुख्यमंत्री साय  कर्नाटक रवाना होने से पूर्व  पत्रकारों से चर्चा करते हुए


रायपुरनगरम्, २४ जुलाईमासः (हि.स.)। छत्तीसगढ-राज्यस्य मुख्यमन्त्री विष्णुदेव-सायः उक्तवान् यत् छत्तीसगढे समान-नागरिक-संहितायाः कार्यान्वयनस्य दिशि राज्यसर्वकारः तीव्रगत्या अग्रे सरति। उच्चतम-न्यायालयस्य पूर्वन्यायाधीशाया: न्यायमूर्तेः रञ्जना-प्रकाश-देसाई-महोदयायाः अध्यक्षतायां गठिताया: समितेः सभानन्तरम् अग्रिमे शीतकालीन-विधानसभा-सत्रे समान-नागरिक-संहिता-सम्बद्धं विधेयकं प्रस्तुतं भविष्यति।

मुख्यमन्त्री सायः अद्य शुक्रवासरे कर्नाटक-राज्यगमनात् पूर्वं रायपुरनगरे पत्रकारैः सह संवादं कुर्वन् अवदत् यत् समितेः अनुशंसासु विचारं कृत्वा सर्वकारः आवश्यकीं वैधानिकीं प्रक्रियां सम्पूरयिष्यति तथा शीतकालीन-सत्रे विधेयकस्य पारणार्थं प्रयत्नं करिष्यति।

काङ्ग्रेस-दलस्य प्रदर्शनस्य विषये प्रतिक्रियां दत्त्वा मुख्यमन्त्री उक्तवान् यत् लोकतन्त्रे सर्वेभ्यः शान्तिपूर्णरीत्या विरोध-प्रदर्शनस्य अधिकारः अस्ति, किन्तु विधिं स्वहस्ते ग्रहीतुं अनुमतिः न दातव्या। सः आरोपितवान् यत् काङ्ग्रेस-दलस्य कार्यकर्तारः काश्मीरस्य शैलीमनुसृत्य पाषाण-प्रक्षेपणम् आरब्धवन्तः। एतादृशेषु प्रकरणेषु विधानानुसारं कार्यवाही भविष्यति।

स्वस्य कर्नाटक-प्रवासस्य विषये मुख्यमन्त्री सायः अवदत् यत् सः सत्य-साई-ग्रामे आयोज्यमाने स्वर्ण-जयन्ती-समारोहे सहभागितां करिष्यति। अस्मिन् अवसरे विविध-क्षेत्राणां प्रबुद्धजनैः सह तस्य साक्षात्कार: अपि भविष्यति।

Hindusthan Samachar / Divya Ranjan