न करणीया चिंता, सर्वेषां समस्यायां भविष्यति प्रभाविनी कार्यवाही : मुख्यमंत्री योगी
गोरखपुरम्, 24 जुलाईमासः (हि.स.)।मुख्यमंत्री योगी आदित्यनाथः गोरखपुरप्रवासस्य द्वितीयेऽपि दिने शुक्रवासरे प्रातःकाले गोरक्षनाथमन्दिरे जनतादर्शनकार्यक्रमम् आयोजितवान्। अस्मिन् अवसरे सः जनान् मिलित्वा तेषां समस्याः अशृणोत्। समस्याभिः सह आगतान् जनान् आ
गोरखनाथ मंदिर परिसर में लगातार दूसरे दिन जनता दर्शन का आयोजन किया मुख्यमंत्री ने*


गोरखनाथ मंदिर परिसर में लगातार दूसरे दिन जनता दर्शन का आयोजन किया मुख्यमंत्री ने*


गोरखनाथ मंदिर परिसर में लगातार दूसरे दिन जनता दर्शन का आयोजन किया मुख्यमंत्री ने*


गोरखपुरम्, 24 जुलाईमासः (हि.स.)।मुख्यमंत्री योगी आदित्यनाथः गोरखपुरप्रवासस्य द्वितीयेऽपि दिने शुक्रवासरे प्रातःकाले गोरक्षनाथमन्दिरे जनतादर्शनकार्यक्रमम् आयोजितवान्। अस्मिन् अवसरे सः जनान् मिलित्वा तेषां समस्याः अशृणोत्। समस्याभिः सह आगतान् जनान् आश्वासयन् सः अवदत्—“चिन्ता मा कुरुत, सर्वासां समस्याणां विषये प्रभावी कार्यवाही भविष्यति।”

जनतादर्शने उपस्थितान् अधिकारिणः निर्देशयन् मुख्यमंत्री उक्तवान् यत् प्राप्तानां सर्वासां शिकायतानां शीघ्रं निष्पक्षं च निराकरणं क्रियताम्। प्रातःकाले आयोजिते जनतादर्शने सः प्रायः शतपञ्चाशत् जनान् अमिलत्। महन्तदिग्विजयनाथस्मृतिभवनस्य बहिः उपविष्टानां जनानां समीपं स्वयं गत्वा एकैकस्य समस्यां श्रुतवान्, प्रार्थनापत्राणि स्वीकृतवान् तथा समीपस्थेभ्यः अधिकारिभ्यः आवश्यकान् निर्देशान् प्रदत्तवान्। विविधप्रकरणसम्बद्धानां समस्याणां समाधानार्थं प्रशासनिकपुलिसाधिकारिभ्यः प्रार्थनापत्राणि प्रेष्य सः समयबद्धं निष्पक्षं च निस्तारणं सुनिश्चितं कर्तुम् आदिशत्।

अपराधसम्बद्धासु भूम्यतिक्रमणसम्बद्धासु च शिकायतासु मुख्यमंत्री पुलिसाधिकारिणः कठोरकार्यवाहीं कर्तुम् आदिष्टवान्। चिकित्सोपचारार्थम् आर्थिकसहायतासम्बद्धेषु प्रार्थनापत्रेषु चिकित्सालयानां व्ययप्राक्कलनस्य प्रक्रिया शीघ्रं सम्पादयितुम् अपि निर्देशितवान्। सः जनान् आश्वासितवान् यत् प्राक्कलनं प्राप्तमात्रेण शासनं त्वरितमेव आवश्यकं धनं प्रदास्यति।

जनतादर्शने कतिपयाः महिलाः स्वबालकैः सह आगताः आसन्। मुख्यमंत्री तान् बालकान् स्नेहेन आलालितवान्, तेभ्यः चॉकलेट् प्रदाय आशीर्वादम् अपि दत्तवान्।

गोरक्षनाथमन्दिरप्रवासस्य अवसरे शुक्रवासरे प्रातःकाले मुख्यमंत्री योगी आदित्यनाथः मन्दिरस्य गोशालां गत्वा गोसेवां कृतवान्। गोशालायां भ्रमन् सः कतिपयान् गोवंशान् तेषां नामभिः आहूतवान्। तस्य स्नेहपूर्णां वाणीं श्रुत्वा ते गोवंशाः त्वरितं तस्य समीपम् आगतवन्तः। मुख्यमंत्री तेषां ललाटं स्नेहेन अस्पृशत्, तान् आलालितवान्, स्वहस्तैः गुडं खादितवान्। अन्याभ्यः गाभ्यः नन्दिने च स्वहस्तैः गुडं प्रदाय गोशालायाः कार्यकर्तृभ्यः गोपालनसम्बद्धान् आवश्यकान् निर्देशान् अपि प्रदत्तवान्।

------------

Hindusthan Samachar / Dheeraj Maithani