Enter your Email Address to subscribe to our newsletters


देवरिया, 24 जुलाईमासः (हि.स.) ।
देवरियाजनपदस्य सदरविकासखण्डे कृषिविभागस्य पक्षतः शुक्रवासरे आयोजितायां जनजागरूकतागोष्ठ्यां श्रीअन्नस्य (स्थूलधान्यानां) महत्त्वं विस्तरेण निरूपितम्। विकासखण्डसभागारे सम्पन्ने अस्मिन् कार्यक्रमे अधिकारिणः कृषिविशेषज्ञाश्च कृषकान् सामान्यजनांश्च स्वदैनिकभोजने श्रीअन्नस्य समावेशं कर्तुम् आह्वयन्।
खण्डविकासाधिकारी पन्नालालयादवः अवदत् यत् प्रायः पञ्चाशद्वर्षेभ्यः पूर्वं अधिकांशजनाः स्थूलधान्यानि भुञ्जते स्म। तेन तेषां अस्थयः दृढाः आसन्, मानसिकसन्तुलनमपि श्रेष्ठम् आसीत्, आयुश्च अपेक्षया दीर्घा भवति स्म। सः उक्तवान् यत् आधुनिकभोजनपद्धतेः प्रभावात् स्थूलधान्यानां प्रयोगः न्यूनः जातः, यस्य प्रतिकूलः प्रभावः जनस्वास्थ्ये स्पष्टतया दृश्यते। तेन सर्वान् शासनस्य श्रीअन्नप्रोत्साहनयोजनानां लाभम् उपयुज्य स्वदैनिकभोजने श्रीअन्नं समावेशयितुम् आग्रहः कृतः। वस्तुविशेषज्ञः धीरेन्द्रसिंहः अपि स्वविचारान् प्रस्तुतवान्।
अस्यां गोष्ठ्यां सहायकविकासाधिकारी (आरडी) गङ्गेशशुक्लः, कृषिवैज्ञानिकः फूलचन्दवर्मा, कृषिवैज्ञानिकः सन्तोषकुमारचतुर्वेदी, विकासकुमारः (एसपीपीओ), सहायकविकासाधिकारी (कृषि) संजयकुमारयादवः, अतिरिक्तकार्यक्रमाधिकारी शिवकुमारः तथा विकासखण्डमिशनप्रबन्धिका कञ्चनलतात्रिपाठी इत्यादयः अन्येऽपि अधिकारिणः स्वविचारान् अभिव्यक्तवन्तः।
----------
Hindusthan Samachar / Dheeraj Maithani