Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, २४ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां करौंदी-स्थिते इन्दिरा-गान्धी-राष्ट्रीय-कलाकेन्द्रस्य क्षेत्रीयकेन्द्रे शुक्रवासरे आयोजितायां मासिक-साङ्गीतिक-श्रृङ्खलायां ‘नादयात्रा’ इति कार्यक्रमे शास्त्रीय-सङ्गीतस्य पारम्परिक-कजरी-गायनस्य च मनोहर-प्रस्तुतयः श्रोतॄन् मन्त्रमुग्धान् अकुर्वन्। अयं कार्यक्रमः क्षेत्रीयकेन्द्रस्य तथा संस्कार-भारती, काशी-महानगरस्य संयुक्तोपक्रमेण आयोजितः।
कार्यक्रमस्य मुख्यातिथिः नागरी-नाटक-मण्डल-न्यासस्य सचिवः डा. अजीत-सैगलः कलाकारान् प्रोत्साहयन् भारतीय-शास्त्रीयसङ्गीतस्य लोकपरम्पराणां च संरक्षणस्य आवश्यकतायाः विषये बलम् अयच्छत्। क्षेत्रीयकेन्द्रस्य निदेशकः डा. अभिजीत-दीक्षितः अतिथीन् स्वागतं कृत्वा अवदत् यत् ‘नादयात्रा’-श्रृङ्खलायां अद्यावधि पञ्चाशदधिकाः साङ्गीतिक-कार्यक्रमाः सफलतया आयोजिताः।
अस्मिन् अवसरे आनन्दिता-तिवारी सङ्गीतस्य सांस्कृतिकाम् आध्यात्मिकीं च महत्त्वं प्रकाशयन्ती अवदत् यत् सङ्गीतं केवलं मनोरञ्जनस्य साधनं नास्ति, अपितु आत्मनः ब्रह्मानन्द-सहोदराम् अनुभूतिं जनयति। तया उक्तं यत् सङ्गीतं मनुष्यं ईश्वरेण सह संयोजयति, यावत् सङ्गीतं जीवति तावत् संवेदनाः अपि जीवन्ति।
मुख्य-प्रस्तुतौ प्रो. ऋचा-कुमारः शास्त्रीयगायनस्य गाम्भीर्येण, रागाणां भावसमृद्ध्या, उत्कृष्टाभिव्यक्त्या च श्रोतॄणां मनांसि आकर्षितवती। तया ‘धीरे से झुलवो बनवारी हर साँवरिया...’ इति झूला-गीतस्य प्रस्तुत्या कार्यक्रमस्य आरम्भः कृतः। अनन्तरं ‘नजर भर हेरो घूंघट वाली रे...’ इति दादरा प्रस्तुतवती। श्रावणमासस्य लोकसाङ्गीतिकपरम्परां सजीवीं कुर्वती सा अनेकानि पारम्परिकानि कजरी-गीतानि अपि मधुरस्वरेण अगायत्, याः श्रोतृभिः अत्यन्तं प्रशंसिताः।
युवा-गायकः भगीरथ-जालानः स्वप्रस्तुतिं गणेश-वन्दनया प्रारब्धवान्। ततः सः ‘रोकना डगर मोरे श्याम, मैं तो जात अपनी धाम...’ इति ठुमरीं, ‘बरसन लागी बदरिया रुमझुम के...’, ‘सावन झर लागेला धीरे-धीरे...’, तथा ‘गोरिया पाए नाहीं सैयाँ के सावनवाँ...’ इत्यादीनि कजरी-गीतानि भावपूर्णतया अगायत्, येन सम्पूर्णं वातावरणं श्रावणमयं जातम्।
कार्यक्रमे पं. ललित-कुमारः तबला-वादनेन प्रभावपूर्णां सङ्गतिं कृत्वा लय-तालयोः विविधतया प्रस्तुतीनां दृढमाधारम् अयच्छत्। हर्षित-उपाध्यायः संवादिनी-वादनेन मधुरां सङ्गतिं कृत्वा गायने भावगाम्भीर्यं संवर्धितवान्।
कार्यक्रमस्य सञ्चालनं काशी-हिन्दू-विश्वविद्यालयस्य सङ्गीत-मञ्चकला-संकायस्य प्रो. कुमार-अम्बरीश-चञ्चलः अकरोत्। अन्ते संस्कार-भारती, काशी-प्रान्तस्य अध्यक्षः डा. आर. वी. शर्मा सर्वेभ्यः अतिथिभ्यः, कलाकारेभ्यः, श्रोतृभ्यश्च धन्यवादं ज्ञापितवान्।
अस्मिन् अवसरे किशन-जालानः, श्याम-कृष्ण-अग्रवालः, डा. प्रेम-नारायण-सिंहः, डा. अवधेश-सिंहः तथा अन्ये बहवः सङ्गीतप्रेमिणः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan