Enter your Email Address to subscribe to our newsletters

कानपुरम्, 24 जुलाईमासः (हि.स.)। विश्वहिन्दूपरिषदः द्विदिवसीयप्रान्तकार्ययोजनाउपवेशने सङ्घटनस्य आगाम्यभियानानां सेवाकार्याणां सामाजिककार्यक्रमाणां च विस्तृता रणनीतिः निर्मास्यते। एताः उक्तयः विश्वहिन्दूपरिषदः कानपुरप्रान्तस्य प्रान्तमन्त्री राजू पोरवाल शुक्रवासरे उक्तवान्।
विश्वहिन्दूपरिषदः कानपुरप्रान्तस्य द्विदिवसीया प्रान्तकार्ययोजनागोष्ठी २५ तथा २६ जुलाई दिनाङ्कयोः जयनारायणविद्यामन्दिरे आयोजिता भविष्यति। उपवेशने प्रान्तस्य पदाधिकारिणः कार्यकर्तारश्च सङ्घटनस्य आगामिकार्यक्रमान् सेवाकार्याणि विस्तारयोजनाश्च विषयीकृत्य चर्चां कृत्वा अग्रिमकार्ययोजनायाः अन्तिमरूपं निर्धारयिष्यन्ति।
प्रान्तमन्त्री राजू पोरवाल अवदत् यत् अस्मिन् वर्षे परमश्रद्धेयस्य अशोक सिंघल जन्मशताब्द्याः तथा सन्तशिरोमणेः रविदासस्य षट्पञ्चाशदधिकषट्शततमा जयन्त्याः निमित्तं सम्पूर्णे प्रान्ते विविधाः धार्मिकाः सामाजिकाः जनजागरणकार्यक्रमाश्च आयोजयिष्यन्ते। एतेषां कार्यक्रमाणां माध्यमेन उभयोः महनीयविभूत्योः विचाराः सन्देशाश्च समाजस्य अधिकाधिकजनान् प्रति प्रापयितुं प्रयासः भविष्यति।
सः उक्तवान् यत् प्रस्तावितकार्यक्रमान् प्रान्तस्य प्रत्येकमोहल्लास्तरपर्यन्तं नयितुं योजना अस्ति। उपवेशने कार्यक्रमाणां रूपरेखा आयोजनतिथयः विविधदायित्वानां निर्धारणं च भविष्यति यथा सर्वे अभियानाः निर्धारितसमयानुसारं सञ्चालिताः भवेयुः।
संगोष्ठ्यां सङ्घटनविस्तारः सामाजिकसमरसता सेवाकार्याणां सुदृढीकरणम् युवानां महिलानां च सङ्घटनात्मकसहभागितायाः वर्धनम् इत्यादिविषयेषु अपि विस्तृतमन्थनं भविष्यति। एतदतिरिक्तम् आगामिमासेषु सञ्चालनीयानां विविधाभियानानां रणनीतेः विषये अपि विचारविमर्शः भविष्यति।
Hindusthan Samachar / Dheeraj Maithani